________________
१३६
श्रीगौतमीयकाव्यं 'संस्तवः स्यात्परिचय' इति । संकीर्णे तु 'सङ्कुलमाकुल मिति च हैमः ॥ ४ ॥ ३ पुनः किमऽचिन्तयदित्याह
नामवेत्ता च लोकानां वेत्री वात्र न दृश्यते ।
तदहो कथमबासीत्रामवादेन मामयम् ? ॥५॥ ६ च पुनरत्रासिन् स्थाने लोकानां नामवेत्ता नामज्ञाता वेत्री वा वेत्रधारी पुरुषोऽपि न दृश्यते न विलोक्यते, तत् तस्मादहो इति
आश्चर्ये, अयं जिनो मां नामवादेन नामोच्चारणेन कथमहासीत् हूत. ९वान् ? कथनमन्तरेणैव मदीयं नामाऽनेन कुतो ज्ञातमिति भावः । वेत्री वेति । 'वेत्रं वेत्रदण्डोऽस्यास्तीति मतुबर्थे इनि, 'दौवारिकः प्रतीहारो वेव्युत्सारकदण्डिन' इति हैमः । वाशब्दोऽप्यर्थः । अह्वा१२ सीदिति । आङ् पूर्वात् ह्वेनः कर्तरि लुङ् । नामेत्यादि । वदनं वादः, नानो वादो नामवादस्तेन ॥५॥
गौतमेत्यभिधानं मे विदितं वर्त्तते जने । १५आहूयन्ते महान्तो हि प्रायो गोत्राभिधानतः॥६॥ इन्द्रभूतीति मे नाम विरला बहुसंस्तुताः। विजानन्ति, ततोऽयं तत् कथमाख्यात्यसंस्तुतः ॥७॥
द्वाभ्यां संबन्धः । मे मम 'गौतम' इत्येवंप्रकारमभिधानं नाम जने लोके विदितं प्रसिद्धं वर्तते । कथमित्याह-हि यतो महान्तो महापुरुषाः प्रायो २१ बाहुल्येन गोत्रस्य निजान्वयस्य यदभिधानं नाम तस्मादाहूयन्ते,
१भत्र 'कथमज्ञासीत्' इति काञ्चीमुद्रितपाठः सङ्गतिविरहादरमणीयः। :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org