________________
गौतमीय प्रकाशाख्यटीकया सहितम् ।
१३५
(८/२/९) इति मतोर्मस्य वः । पुर इत्यादि । 'पूः स्त्री पुरीनगर्यौ वा' इत्यमरः। ‘अन्तिकं पुनः पार्श्वे' इति हैमः । पूर्वाह्णेत्यादि । अह्नः पूर्वः पूर्वाह्नः 'पूर्वापर - ' (२।२।१ ) इत्यादिना समासे ' राजाह : - ३ सखिभ्यः -' ( ५।४।९१ ) इति टच् । स चासौ कालश्च तस्मिन् । वैशाखेत्यादि । एकादशी चासौ तिथिश्च एकादशी तिथिः वलक्षा चासौ एकादशी तिथिश्च वलक्षैकादशी तिथिः, वैशाखस्य वलक्षैकादशी - ६ तिथिः वैशाखवलक्षैकादशी तिथिस्तस्याः । ' वलक्षो धवलोऽर्जुन' इत्यमरः । ‘तिथिः पुनः कर्मवाटी' इति हैमः । चरमेत्यादि । चरमश्चाऽसौ देहश्च चरमदेहः, सोऽस्ति अस्येति चरमदेही, तस्य ९ भावस्तत्ता, तां मत्वार्थिकेन्नन्ताद्भावे तल । आयाहीति । आङ्पूर्वात् याधातोर्लोट् । नामेत्यादि । नाम उक्तिः कथनं सा पूर्वा यत्र कर्मणि तत्, क्रियाविशेषणमिदं, 'शेषाद्विभाषा' (५|४|१५४ ) इति कप् । १२ 'आपोऽन्यतरस्याम्' ( ७|४|१५ ) इति हखः । आलापयामासेति । ‘लप परिभाषणे' हेतुमण्णिजन्तादस्मादाम् । मधुरयेति । 'मधुरस्तु प्रिये खादा' विति हैमः ( अनेकार्थः ) । प्रिये मनोज्ञे इत्यर्थः ॥ २ ॥ ३ ॥ १५ अथ स किं कृतवानित्याह
--
संस्तुतोऽपि चिरं लोको दुर्लक्षो जनसङ्कुले |
मामेष कथमज्ञासीदित्यसौ प्रत्यचिन्तयत् ॥ ४ ॥ १८ असौ इन्द्रभूतिर्द्विज इत्यमुना प्रकारेण प्रत्यचिन्तयत् प्रतिचिन्तयति स्म । इतीति किम् ? | यतश्चिरं चिरकालं संस्तुतोऽपि परिचितोऽपि लोको जनैर्मनुष्यादिभिः सङ्कले संकीर्णप्रदेशे दुर्लक्षो दुःखेन लक्ष - २१ णीयो भवति ततोऽपरिचित एष जिनो मां कथमज्ञासीत् ? केन प्रकारेण ज्ञातवानिति चिन्तनपरोऽभूदित्यर्थः । संस्तुत इत्यादि । २३
Jain Education International For Private & Personal Use Only
www.jainelibrary.org