________________
श्रीगौतमीयकाव्यं 'इन्द्रभूते ! त्वमायाही' त्यस्य नामोक्तिपूर्वकम् । वाक्येनालापयामास द्विजं मधुरया गिरा ॥३॥
त्रिभिर्विशेषकम् । विशुद्धविज्ञानकरं प्रसार्य द्विजेन्द्रभूतिर्भवसिन्धुमध्यात् ।
समुद्धृतो येन जिनेश्वराय नमोऽस्तु तस्मै त्रिशलात्मजाय ॥१॥ ६ अथ ततस्तदनन्तरं भगवान् ज्ञानादिमहातिशयसम्पन्नो वीरप्रभुस्तीर्थप्रवृत्तये चतुर्विधसङ्घप्रवृत्त्यर्थमपापायाः पुरः अपापासंज्ञिकानगर्या
अन्तिके समीपप्रदेशे वर्तमानं महसेनवनं महसेनाख्यं काननं क्षेत्रं ९विज्ञाय ज्ञात्वा तथा वैशाखवलक्षकादशीतिथेः माधवमासोज्वलैकादशीकर्मवाट्याः पूर्वाह्नसमये, एतावता वैशाख सु(शु)येकादशीदिन
पूर्वभागं च कालं विज्ञायेत्यर्थः । तथा गौतमोऽभिख्या नाम यस्य १२ तत्तथाविधं च द्रव्यं विज्ञाय तथा पुनश्चरमदेहितां चरमशरीरित्वं भावं विज्ञाय, एतेन द्रव्यक्षेत्रकालभावचतुष्टयस्यापि योग्यतां ज्ञात्वा 'हे
इन्द्रभूते गौतम ! त्वं आयाहि आगच्छ' इतीत्थंभूतेन वाक्येन वचनेन १५ अस्य गौतमस्य नामोक्तिपूर्वकमभिधानोच्चारणपूर्वकं मधुरया मनोज्ञया
मृष्ट्या वा गिरा वाण्या द्विजमिन्द्रभूत्याख्यं ब्राह्मणमालापयामास
संभाषयामास । अथेति । अथशब्दोऽत्र मङ्गलार्थों निपातः, सच १८ मृदङ्गध्वनिवत् खरूपेणैव मङ्गलं, यद्वाऽधिकारार्थ आरम्भार्थों वा, न
त्वनन्तरार्थः; 'ततः' शब्दस्य वैयर्थ्यांपत्तेः । 'अथो अथ समुच्चये मङ्गले संशयाऽऽरम्भाऽधिकारानन्तरेषु च' इत्यनेकार्थः । भगवानिति। २. ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । ज्ञान-वैराग्ययोश्चैव षण्णां __ भग इतीङ्गना' ॥१॥ इति षडर्थवादको भगशब्दोऽत्र ग्राह्यः, स २३ विद्यतेऽस्येति 'तदस्यास्ति' (५।२।९४) इति मतुप्, 'मादु०'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org