SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । १३३ इत्थमनेनोक्तप्रकारेण अतिशयेन विद्वानिति विद्वत्तमो गौतमो यज्ञगृहे जनस्य लोकस्य पुरतोऽग्रतो यां च दृढां प्रतिज्ञा 'निर्जित्य तं यावदुपैमि गेहम्' (अत्र पृ० १२६) इत्यादिकां चक्रे पुरा कृतवान् , ३ तां पदे पदे शिथिलयन् शिथिलीकुर्वन् नाथस्य श्रीवीरप्रभोः अन्तिके समीपे आगत्य तस्य भगवतो महसा तेजसा जडीकृत इव स्तम्भित इव तस्थौ अवतिष्ठते स्म । तत आश्चर्यस्य उपभोगोऽनुभवनं तेन६ अवशोऽनात्मवशः, पराधीन इत्यर्थः । एवंविधो गौतमो भगवत इयं भागवती तां भगवत्संबन्धिनी वाणी पिबन् प्रमुमुदे प्रकर्षेण हर्षितो बभूव । शिथिलयन्निति । 'तत्करोति' (ग०) इति णिजन्ताल्लटः ९ शतृ । प्रमुमुदे इति । मुदः कर्तरि लिट् । इदं शार्दूलविक्रीडितवृत्तं, तल्लक्षणं तु 'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडित'मिति ॥ ३९ ॥ १२ इति गौतमस्याऽद्भुतावेशवर्णनो नाम षष्ठः सर्गः ॥६॥ इति अद्भुतस्याश्चर्यस्य आवेशः आटोपस्तस्य वर्णनं यस्मिन्स तथोक्तः, शेषं सुगमम् ॥ इति श्रीगौतमीयप्रकाशाख्यायां श्रीगौतमीयमहाकाव्यव्याख्यायां षष्ठः सर्गः ॥६॥ १८ सप्तमः सर्गः। अथ विज्ञाय भगवांस्ततस्तीर्थप्रवृत्तये । महसेनवनं क्षेत्रमपापायाः पुरोऽन्तिके ॥१॥ पूर्वाह्नकाले वैशाखवलक्षैकादशीतिथेः । द्रव्यं च गौतमाभिख्यं भावं चरमदेहिताम् ॥२॥ २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy