________________
१३२
श्री गौतमीयकाव्यं
विधे आसने सिंहासने स्थितं, तथा न विद्यते उपमा यस्याः साऽनुपमा ईदृशी या दीप्तिः प्रभा तया दीपितं नाथं श्रीवीरप्रभुं वीक्ष्य ३ दृष्ट्वा गौतमो निजे खकीये दृशौ नेत्रे अपुनात् पवित्रयति स्म । 'पूञ पवने ' कैयादिकोऽस्माल्लङ् । रोरुचदिति । अतिशयेन पुनः पुनर्वा रोचन्ते इति रोरुचन्तः यङ्लुगन्तस्य परस्मैपदित्वात् शतृ, ६ ‘नाभ्यस्तस्याचि’ (७।३।८७ ) इति लघूपधगुणनिषेधः । भाष्यमते तु - 'अतिशयेऽर्थे रुच्धातोर्यङ् न भवति । भृशं शोभते रोचते इत्यादौ यङ् नेत्युक्तत्वात्, तन्मतेऽत्र पौनःपुन्ये एव यङ्,' दीपित९ मिति णिजन्ताद्दीप्यतेः क्तः ॥ ३७ ॥
अस्य विश्वपतिदर्शनासहाऽवाङ्मुखी यदभवन्मृषामतिः । तद्बभूव सुमतिस्तु संमुखी कुत्र न प्रकृतिभेद ईक्ष्यते ॥ ३८ ॥
१२
विश्वपतेर्भगवतो दर्शनं न सहते इति विश्वपतिदर्शनासहा अत एवाऽवाङ् मुखं यस्याः साऽवाङ्मुखी अधोमुखी, विपरीतेत्यर्थः, एवंविधा यदस्य गौतमस्य मृषामतिर्मिथ्याबुद्धिरभवत् । तु इति विशेषे, १५ तत् संमुखी अविपरीता सुमतिर्बभूव । युक्तोऽयमर्थः - प्रकृतेः खभा - वस्य भेदो भिन्नत्वं, परावर्त्त इति यावत् । कुत्र न ईक्ष्यते न दृश्यते ? कारणावाप्तौ प्रायस्सर्वत्रेक्ष्यते इत्यर्थः । अतोऽस्यापि मृषामतेः सुमति१८ तया भवनं युक्तमेवेति भावः । दर्शनेत्यादि । सहते इति सहा पचाद्यच्, न सहाऽसहा, दर्शनस्याऽसहेति षष्ठीतत्पुरुषः ॥ ३८ ॥ इत्थं यज्ञगृहे जनस्य पुरतो यां च प्रतिज्ञां दृढां
चक्रे तां तु पदे पदे शिथिलयनागत्य नाथान्तिके । तस्थौ तन्महसा जडीकृत इवाश्चर्योपभोगावशो वाणीं भागवतीं पिबन् प्रमुमुदे विद्वत्तमो गौतमः || ३९॥
२१
२३
Jain Education International For Private & Personal Use Only www.jainelibrary.org