________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १३१ अथानन्तरं ध्यानपद्धतिं ध्यानमार्ग आस्थित आलम्ब्य स्थितो मुनिरिव विमोहं विमूढत्वं व्यग्रचित्तत्वमिति यावत् , उद्वमन् परित्यजन् स गौतमो मेरुणा स्वर्णाचलेन सङ्गतं मिलितं मेरुसम्बन्धी-३ त्यर्थः । तुङ्गमुन्नतं शृङ्गं शिखरमिव मध्ये रत्नप्राकारस्याऽभ्यन्तरे राजितं शोभितं रत्नपीठमारुरोह आरूढवान् ॥ ३५ ॥ आतपत्रमिव दण्डमण्डितं सत्प्रवालकुसुमैः करम्बितम् । ६ छाययाऽत्र विनिवारिताऽऽत्तयं स न्यभालयदशोकपादपम्॥३६॥
सन्ति समीचीनानि यानि प्रवालाश्च नवकिसलयानि कुसुमानि च पुष्पाणि तैः करम्बितं मिश्रितं पुनश्छायया विशेषेण निवारित ९ आतपो येन स विनिवारिताऽऽतपस्तं पत्राणामतिसान्द्रत्वादिति भावः। अत एव दण्डेन मण्डितं शोभितं आतपत्रं छत्रमिव स्थितं एवंविधं अशोकपादपमशोकवृक्षं स गौतमोऽत्र रत्नपीठे न्यभालयत् पश्यति १२ स्म । 'ननु 'भल निरूपणे' अस्य चौरादिकस्याकुश्मीयत्वेनात्मनेपदिस्वाल्लङि न्यभालयतेति रूपं स्यात् , ततश्च कथमत्र परस्मैपदप्रयोग इति चेत्-सत्यं, परमत्र निभालनं निभालः भावे घञ् , तमकरोदिति १५ विगृह्य 'तत्करोति' (ग० ) ण्यन्ताल्लङिति नोक्तदोषः । करम्बितमिति । 'करम्बः कबरो मिश्र' इति हैमः ॥ ३६ ॥ तत्र मूलमनुकृत्य काश्चने रोरुचन्मणिविचित्र आसने । १८ गौतमोऽनुपमदीप्तिदीपितं वीक्ष्य नाथमपुनान्निजे दृशौ ॥३७॥ __ तत्राऽशोकवृक्षे यन्मूलं स्कन्धप्रदेशस्तदनुकृत्य पश्चात् कृत्वा, स्थिते इति शेषः । कञ्चनस्य विकारः काञ्चनं तस्मिन् , स्वर्णमये इत्यर्थः। तथा रोरुचन्तो देदीप्यमाना ये मणयः स्फटिकाद्यास्तैर्विचित्रे एवं- २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org