SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३० श्रीगौतमीयकाव्यं रत्नवप्ररमणीयरोचिषो रागरञ्जितमिवाखिलं नमः। पश्यतो द्विजवरस्य धीरभूद्रागिणी जिनवरोपसर्पणे ॥३२॥ ३ रत्नवप्रस्य यद्रमणीयं रोचिज्योतिस्तस्य रागेण रञ्जितमिवाऽखिलं समस्तं नभ आकाशं पश्यतो द्विजवरस्य गौतमस्य धीर्बुद्धिर्जिनवरस्य भगवत उपसर्पणे समीपगमने रागोऽस्त्यस्या इति रागिणी अभूत् ॥३२॥ ६ स प्रविश्य वरतोरणेन तं भास्वरं वरणगर्भमैक्षत । विश्वनाथमहसाऽभिपूरितं निर्मलाद्भिरिव संभृतं सरः ॥३३॥ ___ स गौतमो वरतोरणेन तं मणिवप्रं प्रविश्य विश्वनाथस्य भगवतो ९ महसा ज्योतिषाऽभिपूरितं भृतं अत एव भास्वरं दीप्तिमन्तं वरणस्य प्राकारस्य गर्भ मध्यभागं ऐक्षत दृष्टवान् । ईक्षतेः कर्तरि लङ्। किमिव । निर्मला या आपो जलानि ताभिः संभृतं पूरितं सर इव भगवन्महसो १२ निर्मलजलेनौपम्यम् , प्राकारमध्यस्य सरसा औपम्यम् ॥ ३३ ॥ दिक्चतुष्कनिगमाऽऽगतामरैः पूर्यमाणमरुचत्तदङ्गणम् । सिन्धुनाथ इव वेगपातिभिः सर्वतः प्रसृतसिन्धुवारिभिः ॥३४॥ १५ दिशां चतुष्कस्य ये निगमा मार्गास्तानागताः प्राप्ता येऽमर देवास्तैः पूर्यमाणं भ्रियमाणं तस्य प्राकारस्याङ्गणं तदङ्गणं अरुचत शोभते स्म । क इव । वेगेन पतन्ति तच्छीलानि वेगपातीनि तैः, १८ सर्वतः सर्वासु दिक्षु प्रसृतानि विसृतानि यानि सिन्धुवारीणि गङ्गा दिनदीजलानि तैः पूर्यमाणः सिन्धुनाथः समुद्र इव, यथा स शोभते तथेदमपीत्यर्थः । अरुचदिति । रुचिधातुरात्मनेपदी अस्माल्लडि २१ 'द्युभ्यो लुङि' (१।३।९१) इति परस्मैपदं द्युतादित्वात् च्लेरङ् ॥३४॥ रत्नपीठमथ मध्यराजितं तुङ्गशृङ्गमिव मेरुसङ्गतम् । २३ आरुरोह स विमोहमुद्वमन् ध्यानपद्धतिमिवास्थितो मुनिः॥३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy