________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
एतदनन्तरोक्तं तद्गतं खर्णप्राकारस्थं अद्भुतमाश्चर्य उदीक्ष्य दृष्ट्या अथानन्तरं गौतमो मानसे हृदये विममर्श चिन्तयामास । किं विममर्शेत्याह-चशब्दो वाक्यालङ्कारे, अत्र प्रदेशे यः कोऽपि महे-३ श्वरः पुरुषो विद्यते एष तस्य महिमा माहात्म्यं अवधार्यते ज्ञायते ॥३०॥
शम्भुकोणविनिविष्टमार्हतं
सम कल्पतरुमालिकावृतम् । चित्तमस्य हरति स्म किं मनो
हारि नैव जगदीश्वरास्पदम् ? ॥ ३१ ॥ तत्र प्राकारे एवं शंभुकोणे ऐशान्यां विदिशि विनिविष्ठं स्थितं ९ पुनः कल्पतरुमालिकाभिः कल्पवृक्षपुष्पमालाभिवृतं वेष्टितं अर्हत इदं आर्हतं सद्म गृहं देवच्छन्दकमित्यर्थः । अस्य गौतमस्य चित्तं हरति स्म । युक्तोऽयमर्थः-जगदीश्वरस्य भगवत आस्पदं स्थानं किं मनो-१२ हारि नैव भवेत् ? भवेदेवेत्यर्थः । नैवेति । अत्र एवशब्दोऽनवधारणार्थस्तेन 'एवे चाऽनियोगे' (वा० ) इति पररूपम् । इत्थमेव शास्त्रान्तरेष्वपि 'रूप्यवप्रे यानानि स्वर्णवप्रे तिर्यञ्चो देवच्छन्दकं चेति १५ दृश्यते । यदुक्तं श्रीजिनप्रभसूरिभिर्विधिप्रपायां नन्दिरचनाधिकारे "बीयपायारंतरे अहि-नउल-मय-मयाहिवाइतिरियाणां, तईयपायारंतरे दिवजाणाईणं ठवणेत्ति" ॥ (मुद्रित० पृ० ३०) श्रीयशोभद्रसूरि-१० कृतप्राचीनसमवसरणस्तोत्रेऽप्युक्तं च 'बहिवप्पे जाणाई, बीए सत्तूवि मित्तभावगया। तिरिया मणिमयछन्दो ईसाणे रयणवप्पबहिति' । एवं द्वितीये समवसरणस्तोत्रेऽपि बोध्यम् ।। तत्पाठस्तु द्वितीयसर्गवृत्तावेव (अत्र पृ० ६१) लिखितोऽस्तीति न पुनर्लिख्यते ॥ ३१ ॥२१
गौ. का.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org