________________
१२८
श्रीगौतमीयकाव्यं
कम्पयन् मनस्विना सुमनसा गौतमेन ददृशे दृष्टः । हशेः कर्मणि लिट् । 'गवयः स्याद्वनगव' इति हैमः ॥ २७ ॥ ३बोधिदध्वनिविमोहितं शशं तस्य मित्रमिव चित्रकं स्थितम् । शान्तमेकमपरं च निर्भयं गौतमो गतिथिं विनिर्ममे ॥२८॥
बोधिदस्य भगवतो ध्वनिना विमोहितं शशं मृदुलोमकं पशु६ विशेषं तथा तस्य शशस्य मित्रमिव स्थितं चित्रकं शार्दूलं तयोर्मध्ये एकं चित्रकं शान्तं गतक्रोधं च पुनरपरमन्यं शशं निर्भयं एवंविधं तत्पशुद्वयं तत्र गौतमो दृशोनॆत्रयोरतिथिं प्राघूर्णकं गोचरमित्यर्थः । ९ विनिर्ममे कृतवान् । बोधिदेति । बोधि सम्यक्त्वं ददातीति विगृहे 'आतोऽनुपसर्गे-' (३।२।३) इति कः । विनिर्ममे इति । विनि
पूर्वान्माङः कर्तरि लिट् ॥ २८ ॥ १२ श्येन-गृध्र-शकुनिक्रमान्तरे
रक्तलोचन-शुकादिपत्रिणः ।
सालमित्तिषु गिरोऽनुभावतो १५ वीक्षते स स निराकुलोचलान् ॥ २९ ॥
स गौतमः सालभित्तिषु प्राकारभित्तिषु श्येन-गृध्र-शकुनीनां श्येन गृध्र-पक्षिणां क्रमान्तरे चरणमध्ये स्थितान् रक्तलोचनशुकादिपत्रिणः १८ पारापत-कीरादिपक्षिणो गिरोऽनुभावतो भगवद्वाण्याः प्रभावात् निरा
कुलं उच्चलं चित्तं येषां ते तान् तादृशान् वीक्षते स्म ददर्श । 'हृचेतो हृदयं चित्तं खान्तं गूढपथोच्चले' इति हैमः ॥ २९ ॥
एतदद्भुतमुदीक्ष्य तद्गतं गौतमोऽथ विममर्श मानसे । २२ योज कोऽपि पुरुषो महेश्वरस्तस्य चैष महिमाऽवधार्यते॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org