SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । १२७ पुनस्तत्र गौतमः ईश्वरस्य भगवतो गिरो वाणीः श्रोतुं समाहितं समाधियुक्तमेकचित्तमित्यर्थः । अत एव मुक्तं त्यक्तं वैरं येन तन्मुक्तवैरं ततश्च जातमुत्पन्नं सौहृदं मैत्री यस्य तज्जातसौहृदमिव ३‍ एकत एकत्र प्रदेशे स्थितं सारमेयवृषदंशकं श्वानमार्जारमपश्यत् हृष्टवान् । सारमेयेत्यादि । सारमेयश्च वृषदंशकश्चेति येषां च विरोधः शाश्वतिक इति समाहारे द्वन्द्वः 'अस्थिभुग् भषणः सारमेयः ६ कौलेयकः शुन' इति हैम: । 'बिडाल ओतुर्मार्जारो ह्रीकुश्च वृषदशक' इति च ॥ २५ ॥ आलुलोकदपचापलं प्रभोर्भारतीश्रवणतः स वानरम् । मौनधारिणमिवार्य मानवं क्षामणापरमिवैडकाजकात् ॥ २६ ॥ ९ पुनः प्रभोर्भारत्या वाण्याः श्रवणत आकर्णनात् अपगतं चापलं चपलत्वं यस्य तमपचापलं, अत एव आर्यमानवमिव सत्पुरुषमिव १२ मौनधारिणं तूष्णीकं स्थितं एवंविधवानरं मर्कटं स गौतम एडका - ऽजकात् मेण्ढक- बर्कराभ्यां क्षामणापरं क्षामणां कुर्वाणमिव आलुलोकत् पश्यति स्म । आङ्पूर्वाल्लोकृधातोश्चुरादिण्यन्तात्कर्तरि लुङ् । १५ अग्लोपित्वान्नोपधाह्रखः । एडकेत्यादि । एडकश्चाऽजकश्चेति द्वन्द्वे 'विभाषावृक्षमृग - ' (२।४।१२ ) इत्यादिना वा एकवद्भावः ॥ २६ ॥ सिंहपृष्ठिमुपधाय लम्बितग्रीवमत्र गवयः पिबन् गिरम् । निर्भयस्तनुमचालयन्निजां गौतमेन ददृशे मनखिना ॥ २७ ॥ १८ अत्र प्रदेशे गवयो वनगवः पशुविशेषो लम्बिता ग्रीवा यत्र तल्लम्बितग्रीवं यथा स्यात्तथा सिंहस्य पृष्ठि पृष्ठप्रदेशमुपधाय आश्रित्य गिरं भगवद्वाणीं पिबन् निर्भयः सन् निजां तनुं देहमचालयन् अप्र- २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy