________________
१२६
श्री गौतमीयकाव्यं
शात्रवं शत्रुता तेन उज्झितान् रहितान्, भगवतो भारती वाणी व्यधात् करोति स्म इति संभाव्यते इति भावः ॥ २२ ॥ ३ तद्धनेर्मधुरिमाऽतिमोहितं द्वीपिनं हरिणयूथमध्यगम् । व्याघ्रकण्ठमुपसृत्य संस्थिता मोहिता मृगमृगीर्ददर्श सः ||२३||
तत्र प्रदेशे स गौतमः तस्य भगवतो ध्वनेर्वाण्या मधुरिम्णा * माधुर्येण अतिमोहितं द्वीपिनं चित्रकं हरिणयूथस्य मृगसमूहस्य मध्यगं विरोधत्यागेन मध्यवर्त्तिनं ददर्श तथा व्याघ्रस्य कण्ठमुपसृत्य तत्समीपे गत्वा संस्थिताः सम्यक् प्रकारेण स्थिता मोहिता इव ● मोहिता मृगाश्च मृग्यश्च मृगमृग्यस्ता ददर्श ॥ २३॥
"
२
शम्बरोऽपि मृगराजसन्निधावुञ्जहाविह तदुद्भवां भियम् । एष एव महिमा महात्मनः क्वापि येन न कुतः पराभवः ॥ २४ ॥ १२ इह प्रदेशे शम्बरोsपि पशुविशेषो मृगराजस्य सिंहस्य सन्निधौ समीपे तदुद्भवां सिंहादुत्पन्नां भियं भीतिं उज्जहौ तत्याज । एषोऽस्य महात्मनो महापुरुषस्यैव महिमा माहात्म्यं प्रभाव इति यावत् । १५ दृश्यते इति शेषः । येन कारणेन इह क्वापि जीवे कुतः कस्मादपि जन्तोः पराभवस्तिरस्कारो न नास्ति । तदेतत्सर्वमस्यैवं माहात्म्यमिति भावः । इति गौतमश्चिन्तितवानिति वाक्यशेषोऽत्र बोध्यः । उज्ज १८ हाविति । उत्पूर्वात् 'ओहाक् त्यागे' अस्मात्कर्त्तरि लिट् । तदुद्भवामिति । उद्भवत्यस्मादित्युद्भवः, स सिंह एवं उद्भव उत्पत्तिकारणं यस्या इति विग्रहः । भियमिति । भयं भीर्भीतिरातङ्क' इति २१ हैमः ॥ २४ ॥
सारमेयवृषदंशकं पुनः श्रोतुमीश्वरगिरः समाहितम् । २३ मुक्तवैरमिव जातसौहृदं गौतमः स्थितमऽपश्यदेकतः ॥ २५ ॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org