________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १२५ भूमि निरीक्ष्य दृष्ट्वा स गौतमः खर्गलोकस्य सुखं अन्वबोभवीत् अतिशयेन अनुभवति स्म । जानुदन्नेति । जानुशब्दात्प्रमाणेऽर्थे 'दान' प्रत्ययः, सुन्दरतरामित्यत्र 'तसिलादिष्वाकृत्वसुचः' (६।३।३५)३ इति पुंवद्भावः । अन्वबोभवीदिति यङ्लुगन्ताद्भवतेः कर्तरि लङ्॥ २० ॥ तत्र वप्रवलये समन्ततोऽपश्यदद्भुतमतीव चक्षुषा । यद्विहाय कुलशत्रुतां मिथः सङ्गताः स्थलचराश्च पत्रिणः॥२१॥ __ तत्र तस्मिन् वर्णमये वप्रवलये प्राकारवलये समन्ततः सर्वप्रदेशेषु गौतमश्चक्षुषा अतीवाऽत्यन्तमद्भुतमाश्चर्यमपश्यत् दृष्टवान् । किमा-९ श्चर्यमित्याह-यद्यस्मात्कारणात्तत्र स्थलचरा गोव्याघ्रादयश्च पुनः पत्रिणः पक्षिणः काकोलूकादयो मिथः परस्परं कुलशत्रुतां कुलसंबन्धवैरितां, जातिविरोधमित्यर्थः । विहाय त्यक्त्वा सङ्गता मिलिताः १२ सन्ति, इदमेवाश्चर्यमऽपश्यदित्यर्थः ॥ २१ ॥ ततो गौतमेन यदचिन्ति तदाहये विवेकविकला भयाकुलाः
प्रायशो गिरिवनाधिवासिनः । ताँस्तिरश्च इह शात्रवोज्झितान्
भारती भगवतो व्यधात्किल ॥ २२ ॥ किलेति संभावनायां, ये तिर्यञ्चो विवेकविकला विवेकहीनाः पुनर्भयेन आकुला व्यग्राः पुनः प्रायशो बाहुल्येन गिरयश्च वनानि च गिरिवनानि तानि अधिवसन्तीति तच्छीलास्तन्निवासिन इत्यर्थः । सन्तीति शेषः । तान् तिरश्चस्तिर्यग्जीवान् इह प्रदेशे शत्रो वः२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org