________________
१२४
श्रीगौतमीयकाव्यं
मन्मनो मच्चित्तं पङ्गुतां पङ्गुलतामिव नयति प्रापयति, एतत्त्यक्त्वाऽग्रतो गन्तुं न शक्यते इति भावः ॥ १७ ॥ ३ इन्द्रजालरचना विवक्ष्यते चेदिहाप्यभिनिवेशमोहितैः। तर्हि सत्पथकथावधारणे सर्वमप्युदितमप्रमाणकम् ॥१८॥ ___ अभिनिवेशो जानत एवाऽसदाग्रहस्तेन मोहितैर्मूढचित्तैः पुरुषै. रिहापि चेद्यदि इन्द्रजालरचना विवक्ष्यते वक्तमिष्यते तर्हि सत्पथस्य सन्मार्गस्य कथाया वार्ता या अवधारणे निश्चयकारणे शास्त्रादौ उदितमुक्तं सर्वमपि अप्रमाणकं प्रामाण्यरहितं, स्यादिति शेषः । इह ९ सर्वस्यापि सद्भूतवस्तुन एव दर्शनादिन्द्रजालकल्पनाया अनृतत्वमिति भावः । अवधारणे इति । अवधार्यतेऽनेनेति विग्रहे करणे
ल्युट् ॥ १८॥ १२ 'अस्तु मे गमनमग्रतः' पुनश्चेतसेति विमृशन् द्विजोत्तमः। प्राविशत्कनकवप्रगोपुरं प्रेक्षणाय पुरुषोत्तमश्रियः ॥ १९ ॥
पुनः 'मे मम अग्रतो गमनमस्तु' इति चेतसा हृदयेन विमृशन् १५ विचिन्तयन् द्विजेषु उत्तमो द्विजोत्तमो गौतमः पुरुषोत्तमस्य श्रीवर्द्ध मानवामिनः श्रियोऽशोकादिप्रतिहार्यलक्ष्म्याः प्रेक्षणाय दर्शनार्थ
कनकवप्रस्य स्वर्णप्राकारस्य गोपुरं द्वारं प्राविशत् प्रविशति स्म । १८ विशेस्तौदादिकाकर्तरि लङ् ॥ १९ ॥
जानुदनकुसुमोच्चयस्तृतां भूमिमुद्धरसुगन्धसंभृताम् ।
तत्र सुन्दरतरां निरीक्ष्य स स्वर्गलोकसुखमन्वबोभवीत् ॥२०॥ २१ तत्र वर्णप्राकारे जानुः प्रमाणमस्येति जानुदनो यः कुसुमोच्चयः
पुष्पसमूहस्तेन स्तृतामाच्छादितां अत एव उद्धर उत्कटो यः सुष्ठु २३ शोभनो गन्धस्तेन संभृतां पूर्णा पुनः सुन्दरतरामतिमनोज्ञां एवंविधां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org