________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १२३ स त्वचिन्त्यमहिमाऽनुमीयते ___ कोऽपि संप्रति विनाऽपि दर्शनम् ॥ १५॥ कर्णयोः सुखं ददातीति कर्णसुखदो यस्य ध्वनिर्देवतूर्याणां देव-३ वादित्राणां निनदस्य शब्दस्योपरि प्रवर्तते, स तु संप्रति अधुना दर्शनं विनाऽपि कोऽपि अचिन्त्यो महिमा प्रभावो यस्य सोऽचिन्त्यमहिमा पुमान् अनुमीयते ज्ञायते । माङः कर्मणि लट् ॥ १५॥
ततः स्वर्णवप्रमालोक्य तेन यचिन्तितं तदाहमानुभानुभिरुपैधितद्युतिर्भात्यहो ! कनकभित्तिरग्रतः। वप्र एष मणिशृङ्गसङ्गतः स्वर्णशैलसुषमामिवोद्वहन् ॥ १६ ॥ ९
अहो इति आश्चर्ये, भानोः सूर्यस्य भानुभिः किरणैरुपैधिता वृद्धिं गता धुतिर्दीप्तिर्यस्य स तथोक्तः, पुनः कनकस्य वर्णस्य भित्तिर्यस्य स कनकभित्तिः, पुनर्मणिशृङ्गैर्मणिमयकपिशीर्षेः सङ्गतो मिलितः १२ अग्रत एवं विध एष वप्रः प्राकारः वर्णशैलस्य मेरुपर्वतस्य सुषमा शोभां उद्वहन्निव धारयन्निव भाति शोभते । 'सुषमा तु स्यात्परमशोभायां कालभिद्यपि' इति अनेकार्थः ॥ १६ ॥
१५ गोपुरं च रुचिरं सतोरणं दीप्यमानमणिभाप्रभासितम् । शक्रचापकमलाऽपहारकं मन्मनो नयति पङ्गुतामिव ॥ १७ ॥
च पुनर्दीप्यमानानां मणीनां भाभिर्दीप्तिभिः प्रभासितं विराजितं अत एव शक्रचापस्य इन्द्रधनुषः कमलाया लक्ष्म्या अपहारकं एवंविधं रुचिरं मनोज्ञं सतोरणं तोरणसहितं गोपुरं वर्णप्राकारद्वारं कर्तृ, २०
१ 'गोपुरं सुचिरं सतोरणं' इति काशीमुद्रितः पाठः, स च छन्दोनुरोधादप्यस्वरसः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org