________________
१२२
श्रीगौतमीयकाव्यं
इह प्रदेशे यद्वस्तु तत् चित्तहारकं मनोहरं विद्यते, परं मनखिनः सुमनसः पुरुषस्य यत्र तत्र प्रदेशे निःप्रयोजनं निष्कारणं विलम्बनं ३ विलम्बकरणं न वरं न श्रेष्ठं, स्वकृत्यं साधनीयमिति भावः । मनखिन इति प्रशंसायां विनिः ॥ १२ ॥
स प्रविश्य विशिखां पुरस्ततः पश्यति स्म सुविमानमालिकाः । ६ सहृदय देशशोभिता रत्नहारलतिका इवोज्वलाः ॥ १३ ॥
ततस्तदनन्तरं स गौतमः पुरोऽग्रे विशिखां प्रतोलीं प्रविश्य सुविमानमालिकाः शोभनविमानश्रेणीः पश्यति स्म दृष्टवान् । का ९ इव । सद्वध्वा हृदयदेशे वक्षःस्थले शोभिता उज्ज्वला निर्मला रत्न - हारलतिका इव विविधमणिमयहारलता इव ' प्रतोली विशिखाः समाः' इति हैमः ॥ १३ ॥
१२ ततः किं जातमित्याह
यो गभीरजलवाह गर्जितं हेपयन् प्रसरति स्म सर्वतः । श्रीजिनेन्द्रहृदयाननोद्गतः शुश्रुवे स मधुरो महाध्वनिः ॥ १४॥
"
यो ध्वनिर्गभीरं गम्भीरं यज्जलवाहस्य मेघस्य गर्जितं तत् ह्वेपयन् लज्जयन् सर्वतः सर्वासु दिक्षु प्रसरति स्म विसृतवान् । स श्रीजि - नेन्द्रस्य वीरप्रभो हृदयाननाभ्यां हृदयमुखाभ्यां उद्गतो ध्वनिः सृतो १८ मधुरो महाध्वनिः शुश्रुवे श्रूयते स्म तेन गौतमेनेति शेषः । हेपयन्निति । 'ही लज्जायां', हेतुमण्णिजन्तादस्माल्लटः शतृ, 'अर्त्तिही - ' ( ७|३ | ३६ ) इति पुक् । शुश्रुवेति । श्रुधातोः कर्मणिलिट् ॥ १४ ॥ भगवद्वाणीं श्रुत्वा गौतमेन यदचिन्ति तदाहयस्य कर्णसुखदः प्रवर्त्तते देवतूर्यनिनदोपरि ध्वनिः ।
२१
१५
२३
Jain Education International For Private & Personal Use Only www.jainelibrary.org