SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् १२१ 1 हैमः । मामिकेति । अस्मदोऽपि ममकादेशः, 'टिड्ढाणञ् (४।१।१५) इति ङीप् प्राप्तावपि 'केवलमामक - ' ( ४।१।३० ) इति नियमात् टापू, ककारस्यादेशावयवत्वेन प्रत्ययस्थत्वाभावात् इकाराऽप्राप्तावपि ३ 'मामकनरकयो:' ( वा० ) इत्युपसङ्ख्यानात् इत्वम् ॥ ८ ॥ ९ ॥ कथमित्याह- इन्द्रजाल कुतुकं कृशाश्विनां दृष्टिसम्भ्रमकरं न चार्थकृत् । अर्थकृत्त्वमपरोक्षमत्र तु प्रेक्ष्यते किमपरं परीक्षितुम् ॥ १० ॥ " कृशाश्विनां नटानां सम्बन्धि इन्द्रजालकुतुकं इन्द्रजालकौतुकं दृष्ट्योत्रयोः संभ्रमकरं चमत्कारकरं वर्त्तते, परं न चार्थकृत् कार्य - ९ साधकं नास्तीत्यर्थः । अत्र तु अपरोक्षं प्रत्यक्षं अर्थकृत्त्वं विद्यते, ततश्च अपरमन्यत् परीक्षितुं किं प्रेक्ष्यते किं विलोक्यते ? अपरपरीक्षाया अत्र किमपि प्रयोजनं नास्तीत्यर्थः । कुतुकमिति । ' कौतुहलं १२ तु कुतुक' मिति हैमः ॥ १० ॥ राजती वरणभित्तिरीदृशी वीरुदु (धु ?) ल्लिखितभक्तिभूषिता । मूर्ध्नि है मकपिशीर्षमण्डिता देवकृत्यमतिरिच्य न क्वचित् ॥ ११॥ १५ ईदृशी एवंविधा वीरुधां विस्तारवद्वल्लीनां उल्लिखिताभिर्भक्तिभिर्भूषिता शोभिता मूर्ध्नि मस्तके हैमैः स्वर्णमयैः कपिशीर्षेः मण्डिता रजतस्येयं राजती रूप्यमयी वरणभित्तिः प्राकारभित्तिर्देवानां कृत्यं कार्यमतिरिच्य पृथकृत्य, देवकृत्यं विनेत्यर्थः । न कचिद् दृष्टेति शेषः । अतो निश्चितं देवकृत्यमेवेदं न त्विन्द्रजालमिति भावः । वीरुच्छब्दो धान्तः ॥ ११ ॥ १८ २१ दर्शनीयमिह नास्ति यन्न तत् सर्वमेव किल चित्तहारकम् । निःप्रयोजनविलम्बनं परं यत्र तत्र न मनखिनो वरम् ॥ १२ ॥ २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy