________________
१२०
श्रीगौतमीयकाव्यं
सोऽथ मोक्षमिव गन्तुमुन्मुखो वप्रसंमुखमितः समुद्ययौ । संमुखीकृतविशुद्धबोधतः प्राप्य शक्तिमिव चोर्द्धगामिनीम् ॥७॥ ३ अथाऽनन्तरं स गौतमो मोक्षं गन्तुमुन्मुख इव इतोऽस्माद्वापीप्रदेशाद्वप्रसंमुखं समवसरणप्रकाराभिमुखं समुद्ययौ सम्यक्प्रकारेण ऊई ययौ । किं कृत्वेव । संमुखीकृतो यो विशुद्धबोधो निर्मलज्ञानं तस्मात् ६ ऊर्द्धगामिनी शक्तिं प्राप्येवेत्युत्प्रेक्षा, च पादपूरणे ॥ ७ ॥ वप्रगोपुरपुरःस्थतोरणं लम्बमानमणिहारभूषणम् । गन्धलुब्धमधुपावलीमिलत्पुष्पदामसुमशेखराञ्चितम् ॥ ८॥
लोचनातिथिमवाप्य लोभित
स्तच्छ्रिया स मतिमत्र सन्दधे ।
पूर्वकल्पितविकल्पजल्पना २ मामिका विघटितेव भासते ॥९॥-युग्मम् ।
इह इति शब्दोऽध्याहार्यः ततश्चैवमन्वयः-लंबमाना ये मणिहारा मणिमया हारास्त एव भूषणानि यस्य तत्तथोक्तं, पुनः पुष्पदामानि १५ पुष्पमालाः सुमशेखराणि पुष्पशेखराणि तेषां द्वन्द्वः, गन्धे लुब्धा
या मधुपावली भ्रमरश्रेणिस्तया मिलन्ति संसर्गवन्ति यानि पुष्पदामसुमशेखराणि तै रचितं प्रशस्तं एवंविधं वप्रगोपुरस्य प्राकारस्य पुरोऽग्रे १८ तिष्ठतीति वप्रगोपुरपुरःस्थं यत्तोरणं तल्लोचनयोरतिथिं नेत्रयोर्गोचरमवाप्य प्राप्य तस्य तोरणस्य श्रिया शोभया लोभितो विमोहितः
स गौतमोऽत्र प्रस्तावे इति मतिं बुद्धिं संदधे धारयामास । इतीति किं २७ तदाह-ममेयं मामिका पूर्व कल्पिता विहिता ये विकल्पा विम.
स्तेिषां जल्पना विघटिता इव अन्यथाभूता इव भासते मद्विकल्पितेन्द्र२३ जालस्यात्राऽदर्शनादिति भावः । सुमेति । 'प्रसूनं कुसुमं सुम'मिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org