________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
११९
एतत् अपरं चित्रमाश्चर्यं विलोक्यते, यतः -- कारणं प्रतिष्ठानहेतुभूतं स्तम्भयोगं स्तम्भसम्बन्धमपहाय त्यक्त्वा इयं उन्नता सार्द्धक्रोशद्वयोच्चा गुरुतराऽतिमहती योजनप्रमितेत्यर्थः । एवंविधा रत्नभूमिः ३ रत्नमयी पृथ्वी व्योम्नि आकाशे प्रतिष्ठिता, निराधारा स्थितेत्यर्थः । अहो ! इति पादपूरणे, निपातानामनेकार्थत्वात् ॥ ४ ॥ आरुरुक्षुरथ तां स उच्चकै रत्नबद्धरमणीयवर्त्मना । प्राह्निरीक्ष्य जलपूर्णदीर्घिकां स्मेरपद्मसचिवां विसिष्मिये ॥ ५ ॥
अथानन्तरं उच्चकैरुन्नतेन रत्रैर्बद्धं यद्रमणीयं मनोज्ञं वर्त्म मार्गस्तेन तां रत्नभूमिं आरोढुमिच्छुरारुरुक्षुः स गौतमः प्राक् पूर्वं स्मेराणि ९ विकसितानि पद्मानि कमलानि सचिवाः सहाया यस्यास्ताम्, विकचकमलयुक्तामित्यर्थः । एवंविधां जलपूर्णदीर्घिकां जलभृतवापीं निरीक्ष्य दृष्ट्वा विसिष्मिये विस्मयं प्राप्तवान् । 'सचिवः सहायेऽमात्ये' इति हैमः । १२ विसिष्मिय इति । 'ष्मिङ् ईषद्धसने' विपूर्वादस्मात्कर्त्तरि लिट् ||५||
विस्मयप्रकार माह
१५
दीर्घकालमपि शिल्पिकल्पिता नेदृशी भवति दीर्घिका पुनः । साsधुनैव रचिता ततः स्फुटा देवताकृतिरियं प्रतीयते ॥ ६ ॥
दीर्घकालमपि यावत् शिल्पिभिः कलावद्भिः कल्पिता रचिता दीर्घिका वापी ईदृशी न भवति, येयं मया दृष्टा सा पुनर्वापी तु १८ अधुनैव रचिताऽस्ति तत इयं स्फुटा प्रकटा देवताकृतिर्देव क्रिया प्रतीयते ज्ञायते, न मनुष्यकृतिरियमित्यर्थः ॥ ६॥
२०
१ 'दीर्घकालमपि यावत् शिल्पिभिः शिल्पकल्पिता नेदृशी भवति' इति काशीमुद्रितमूलपाठ छन्दोभङ्गवत्त्वादसमीचीनः ।
Jain Education International For Private & Personal Use Only www.jainelibrary.org