SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ११८ श्रीगौतमीयकाव्यं वेष्टितो गौतम इन्द्रभूतिर्वनदिशं प्रति दृशौ दृष्टी क्षिपन् प्रेरयन् दिव्या मनोज्ञा या देवानां समूहो दैवस्तेन कृता रचना समवसरणरूपा ३तां उदैक्षत उच्चैर्विलोकितवान् । अस्मिन् सर्गे रथोद्धनावृत्तं, तल्लक्षणं च 'रान्नरा-विह रथोद्धता लगा'विति ॥ १ ॥ श्यामलच्छविविभासितं वनं तावदस्य नयने व्यलोभयत् । ६ पूर्वमेव महिमानमैश्वरं ज्ञापयत्कुमतमोहितानिव ॥२॥ तावत्प्रथमं श्यामला श्यामा या छविः प्रभा तया विभासितं दीप्यमानं वनं, अस्य गौतमस्य नयने चक्षुषी व्यलोभयत् , विमोहिते ९ चकार । वनं किं कुर्वदिव । पूर्वमेव प्रथममेव कुमतेन कुदर्शनेन मोहितान् लोकान् ईश्वरस्याऽयमैश्वरः तं महिमानं महत्त्वं ज्ञापयदिव । 'स्याद्रामः श्यामलः श्याम' इति हैमः ॥ २ ॥ १२ एतदेव महसेनकं वनं दृश्यते किमथवाऽत्र नन्दनम् । श्रीरमुष्य जनिताऽद्भुता कथं संनिधाय स हृदीत्यचिन्तयत् ॥३॥ अत्र प्रदेशे एतत् महसेनकं महसेननामकमेव वनं दृश्यतेऽथवा १५ किं नन्दनं वनं दृश्यते ? अथ चेन्महसेनवनमेवैतत्तर्हि अमुष्य अस्य वनस्य श्रीः शोभाऽद्भुता आश्चर्यकारिणी कथं केन प्रकारेण जनिता उत्पादिता ? मालाकारादिभिरिति शेषः । इत्यमुना प्रकारेण स १८ गौतमः संनिधाय वनसमीपं प्राप्य हृदि मनसि अचिन्तयत् चिन्तयति स्म ॥ ३ ॥ पुनर्गौतमो यदचिन्तयत्तदाहचित्रमेतदपरं विलोक्यते स्तम्भयोगमपहाय कारणम् । २२ रनभूमिरियमुन्नता यतो व्योम्यहो ! गुरुतरा प्रतिष्ठिता ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy