________________
गौतमीयप्रकाशाख्यटीकया सहितम् । ११७ इति अमुना प्रकारेण सरभसं सत्वरमुद्यन् प्रादुर्भवन् यो मानो गर्वः स एव नागो हस्ती तमधिरूढ आरूढः । पुनः शरा बाणा अर्थात्पञ्च, तैः मितानि प्रमितानि यानि शतानि पञ्चशैतानीत्यर्थः ।३ तावन्तो ये शिष्याश्छात्रास्तैर्वर्द्धितो वृद्धिं नीत उत्साह एव सारो बलं यस्य स तथोक्त एवंभूत इन्द्रभूतिर्गौतमः आश्चर्यहेतुं विस्मयकारणं ईशस्य भगवत इदं ऐशं समवसरणं द्रष्टुं विलोकयितुं द्राक् शीघ्र ६ भगवतोऽभिमुखं संमुखं प्रतस्थे चचाल । सरभसमिति । 'रभसो वेगहर्षयो'रित्यनेकार्थः । 'वेगो रंहस्त्वरा वेति तद्वृत्तिः । अधिरूढ इति । 'गत्यर्थ-' (३।४।७२) इत्यादिना कर्तरि क्तः । प्रतस्थे ९ इति । प्रपूर्वात्स्थाधातोः कर्तरि लिट् । इदं मालिनीवृत्तं, तल्लक्षणं तु 'न-न-म-य-य-युतेयं मालिनी भोगिलोकैरिति ॥४१॥ इति गौतमविषादोत्साहवर्णनो नाम पञ्चमः सर्गः ॥५॥ १२ इतीति स्पष्टम् । इति श्रीगौतमीयप्रकाशाख्यायां गौतमीयमहाकाव्यव्याख्यायां
पञ्चमः सर्गः ॥५॥
षष्ठः सर्गः। प्रस्थितोऽथ वरगुवरावयाद्रामतो वनदिशं दृशौ क्षिपन् । गौतमो विबुधखण्डिकैर्वृतो दिव्यदैवरचनामुदैवत ॥१॥ १८ यस्य चारुरचनाविराजितं दिव्यधाम सुरराजिनिर्मितम् । इन्द्रभूतिरभिवीक्ष्य विस्मयं प्राप सोऽस्तु जिनपुङ्गवो मुदे ॥१॥
अथ यज्ञगृहात् प्रस्थानाऽनन्तरं वरगुर्वराह्वयात् 'वरगुर्वर' नामकाझामतः प्रस्थितश्चलितो विबुधाः पण्डिता ये खण्डिकाः खशिष्यास्तैवतो २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org