________________
११६
श्रीगौतमीयकाव्यं वादाय नैव प्रभविष्णुरेषो
ऽस्माभिः समं निश्चितमेतदस्ति । नागाधिराजोऽपि विषं विमुञ्चन्
किं वैनतेयेन समं समर्थः १ ॥ - एष पुमान् अस्माभिः समं सार्द्ध वादाय वादं कर्तुं नैव प्रभ६ विष्णुः समर्थों विद्यते एतनिश्चितं निश्चयीकृतमस्ति । एतमेवार्थमर्थान्तरन्यासेन द्रढयति-नागाधिराजः सर्पेन्द्रो विषं विमुञ्चन्नपि परपीडनार्थ मुखाबहिनिष्कासयन्नपि वैनतेयेन गरुडेन समं सह, ९ योद्धमिति शेषः, किं समर्थों भवेत् ? न भवेदेवेत्यर्थः । वादा. येति । 'क्रियार्थोपपदस्य-' (२।३।१४) इति चतुर्थी ॥ ३९ ॥
एवमुक्त्वा पुनगौतमस्तानाह-- १२ निर्जित्य तं यावदुपैमि गेहं विद्वद्वरैस्तावदिहासितव्यम् । पुरोग एवारिवलं जयेचेत् कृतं तदा पृष्ठगचक्रवीरैः॥४०॥
अहो ! विद्वांसो ! यावत्तं पुरुषं निर्जित्य अहं गेहमुपैमि गृहमाग५च्छामि, तावद्विद्वद्वरैर्विद्वत्सु प्रधानैर्भवद्भिः इह आसितव्यम् अत्रोपवेष्टव्यम् । उक्तेऽर्थेऽर्थान्तरं न्यस्यति-चेद्यदि पुरोग एव सैन्याग्रगामी
सुभट एव अरिबलं वैरिसैन्यं जयेत् अभिभवेत् , तदा पृष्ठगचक्र१८ वीरैः पृष्ठगामिसैन्यसुभटैः कृतं, सूतमित्यर्थः ।। ४० ॥
इति सरभसमुद्यन्माननागाधिरूढः _ शरमितशतशिष्यैर्वर्द्धितोत्साहसारः ।
समवसरणमैशं द्रष्टुमाश्चर्यहेतुं _भगवदभिमुखं द्रागिन्द्रभूतिः प्रतस्थे ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org