________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
यावन्न चाऽस्मादृशदृष्टियोगं गतो
गजो व्याघ्रमिवाऽनवेक्ष्य ॥ ३७॥ अयं पुरुषः उदात्तो महान् घोषः शब्दो यस्य स उदात्तघोषः । सन् तावद्गर्जतु । पुनरीश्वरता ऐश्वर्येण अभिषिच्यते स्मेति ईश्वरताभिषिक्तं ऐश्वर्यजनितं गर्वमहङ्कारं तावद्दधातु धारयतु यावदस्माइशानामस्मत्तुल्यानां दृष्ट्योर्नेत्रयोर्योग सम्बन्धं न गतो न प्राप्तः । क ६ इव । व्याघ्र शार्दूलमनवेक्ष्य अप्रेक्ष्य स्थितो गज इव । यथा गजस्तावदुदात्तघोषो गर्जति, तावच्च खमहत्त्वगवं दधाति यावयाघ्रं न प्रेक्षते तथा अयमपीत्यर्थः । उदात्तेति । 'उदात्तो दातृमहतोहृद्ये च खर-९ भिद्यपि' इति अनेकार्थः ॥ ३७ ॥
शैलालिनां सिद्धिरुतेन्द्रजाले
प्रस्तावसम्पादितवस्तुयोगात् । विद्यावतामत्र तु कापि नाऽऽस्था __ मृषाविधौ न प्रतियन्ति बुद्धाः ॥ ३८॥ उतेति वितर्के, शैलालिनां नटानां प्रस्तावे अवसरे संपादितं १५ निष्पादितं यद्वस्तु कौतुककारिपदार्थस्तस्य योगात् इन्द्रजाले कुहके, सिद्धिरस्तीति शेषः । विद्यावतां तु अत्रेन्द्रजाले कापि आस्थाऽपेक्षा न, कोऽप्यादरो नास्तीत्यर्थः । कथमित्याह-यतो बुद्धाः पण्डिता १० मृषाविधौ मिथ्याकार्य न प्रतियन्ति न प्रतीतिं कुर्वन्ति । इन्द्रजालस्य मिथ्याकार्य्यत्वान्न तत्र विदुषामादर इति भावः । 'नटः कृशाश्वी शैलाली' इति हैमः । आस्थेति । 'आस्था यवालम्बनयोरस्थानाऽपेक्ष-२१ योरपि' इति अनेकार्थः । प्रतियन्तीति । प्रतिपूर्वादिणः कर्त्तरि लट् ॥ ३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org