SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ११४ श्री गौतमीयकाव्यं नीयो विचार्यः । तर्हि किं कार्यमित्याशङ्कयाह -- क्रतुक्रिया यज्ञक्रिया तिष्ठतु आस्तां तावत् प्रथमं नियतो निश्चित एतस्य धर्मध्वंसकर्तुर्ज • ३ यस्याऽभ्युपायो विधेयः कर्त्तव्यः ॥ ३४ ॥ एष पुरुषो विद्यावतां विदुषां मध्ये पूर्वं दृष्टो दृष्टपूर्वी न, पूर्व ९ कदापि विद्वत्सु न दृष्ट इत्यर्थः । न पुनः काऽपि सुतरामत्यन्तं दूरदेशेऽपि श्रुतो वेत्युत्प्रेक्षायाम् । एष विहायस आकाशादत्र भूमौ पतितः ? किं वा–ननु निश्चितं (वितर्के ? ) भूमिगर्भाद्भूमध्यादक१२ स्मादत्रावतीर्णो ?, न ज्ञायते सद्यः कुतः समेतोऽयमिति भावः ॥ ३५ ॥ १५ विद्यावतामेष न दृष्टपूर्वो नापि श्रुतः क्वापि सुदूरदेशे । विहायसो वा पतितोऽत्र भूमौ किं वाऽवतीर्णो ननु भूमिगर्भात् ॥ ३५ ॥ २२ आयातु यात्वेष यतस्ततो वा स्वार्थं समाराधयतां सुखेन । दुःखाय नः किंतु भवेत्प्रकामं लोकेऽस्य लोकेश्वरताप्रसिद्धिः ॥ ३६ ॥ एष यतस्ततो वा प्रदेशात् आयातु आगच्छतु, यत्र तत्र वा यातु, १८ अथवा सुखेन खार्थं स्वप्रयोजनं समाराधयतां साधयतु, नाऽस्माकं किमपि दुःखायेति वाक्यशेषः । किंतु लोके याऽस्य लोकेश्वर तायाः प्रसिद्धिः सा प्रकाममत्यन्तं नोऽस्माकं दुःखाय भवेत् ॥ ३६ ॥ गर्जत्वयं तावदुदात्तघोषो गर्वं दधात्वीश्वरताऽभिषिक्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy