________________
गौतमीयप्रकाशाख्यटीकया सहितम् । ११३ च पुनः कामं यथेच्छं व्योमनि आकाशे चरन्तीति व्योमचरास्तेषु, एतेषु देवेषु वयं सत्यं सुरत्वं देवत्वं न प्रतीमो न श्रद्दधामः । यद्यस्मात् कारणात् हीति निश्चितं, जनवञ्चकानां मायाविनां धूर्तीनां ३ माया दुःखेन अन्तो यस्याः सा दुरन्ता दुर्ज्ञानेत्यर्थः, इति किं वयं न विद्मो न जानीमो ?, विद्म एवेत्यर्थः । एतावता एतेन मायिनैव खमायया एते देवा अपि कल्पिता इति ज्ञायन्ते इति भावः । प्रतीम ६ इति । प्रतिपूर्वादिणः कर्तरि लट् ॥ ३२ ॥
मुग्धेषु लोकेषु कुतो विवेको
ज्ञास्यन्ति हा हा ! प्रभुमेनमेव । किं ज्ञायते शासनमस्य कीदृक् ?
सोपद्रवः सन्निगमो हि भूतः ! ॥३३॥ मुग्धेषु तत्त्वज्ञानहीनेषु विवेको योग्याऽयोग्यत्वनिर्णयः कुतः ? न १२ कुतोऽपीत्यर्थः। ततश्च हा हा ! इति खेदे, मुग्धलोका एनमेव मायिनं प्रभुं जगत्स्वामिनं ज्ञास्यन्ति । तथा किं ज्ञायते अस्य शासनं धर्मोपदेशः कीदृग् अस्ति !, ततो हीति निश्चितं, सन्निगमः सद्धर्ममार्गः १५ सोपद्रवः उपद्रवयुक्तो भूतः सञ्जातः । 'अध्वा पन्था निगमः सृतिः' इति हैमः ॥ ३३ ॥
ध्वस्ते तु धर्मे जगतो गतिः का?
यत्नोऽस्य तत्कोऽपि विमर्शनीयः। क्रतुक्रिया तिष्ठतु तावदेत
अयाम्युपायो नियतो विधेयः ॥ ३४॥ २१ तु इति विशेषे । धर्मे ध्वस्ते सति जगतो विश्वस्य का गतिः ?, न कापीत्यर्थः । तत्तस्मात्कारणादस्य कार्यस्य कोऽपि यत्नो विमर्श-२३
८ गौ० का०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org