SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ११२ श्रीगौतमीयकाव्यं कोऽसौ स्वमायां बहुलं वितत्य स्थितो जनानां बत वञ्चनाय ॥ ३०॥ ३ अयं ब्रह्मा न विष्णुर्न वाऽथवा हरो रुद्रोऽपि, न दृश्यते इति शेषः । य इष्टं सर्वेषां देवानां वल्लभं मखभागं यज्ञांशमवधीरयेत् तिरस्कुर्यात् । बतेति खेदे, जनानां वञ्चनाय प्रतारणाय बहुलां प्रचुरां ६खमायां वितत्य विस्तार्य स्थितोऽसौ, को विद्यते? इति शेषः ॥३०॥ आः ! एष मायी कुहनेन्द्रजाल क्रियापटुर्द्धर्म विलोपहेतुः। नो चेदिदानीमवधानहानि ___ कुर्यात्कथं सामगयाजकानाम् ? ॥ ३१॥ आः इति सन्तापे, एषः कश्चित् कुहनया कपटेन परिविस्मापनार्थ १२ मिथ्याकल्पनया या इन्द्रजालक्रिया तस्यां पटुश्चतुरो मायाऽस्यास्तीति मायी कपटी पुमान् धर्मविलोपस्य यज्ञधर्मविनाशस्य हेतुः कारणं, समुपेत इति शेषः । नो चेत् यद्येवं न स्यात्तर्हि इदानीं साम्प्रतं साम१५ वेदं गायन्तीति सामगा ये याजका यज्ञक रस्तेषां अवधानस्य समाधानस्य हानिः कथं कुर्यात् ? । 'आ' इति सान्तो निपातः । 'आः सन्तापप्रकोपयो'रिति अनेकार्थः । कुहनेति । 'कुहना १८ दंभचर्या चेति हैमः ॥ ३१॥ एतेषु च व्योमचरेषु कामं सत्यं सुरत्वं न वयं प्रतीमः । मायाविनां यजनवञ्चकानां माया दुरन्तेति हि किं न विद्मः ॥ ३२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy