SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्य टीकया सहितम् । निर्द्धार्थ तां नाहमवैमि मूढस्तथापि जाने जगदीश्वरोऽयम् । रूपेण देवैरपि दुर्लभेण ज्योतिर्भरेणाऽपि खगातिगेन ॥ २८ ॥ हे खामिन् ! अहं मूढो मूर्खो यद्यपि निर्द्धार्य्य निश्चयं कृत्वा तं पुरुषं नाऽवैमि न जानामि तथापि देवैरपि दुर्लभेन रूपेण सौन्दर्येण ६ अपि पुनः खगमतीत्य गच्छतीति खगैातिगस्तेन रूपातिशायिना ज्योतिर्भरेण तेजःपुञ्जेन अयं जगतामीश्वरो जगदीश्वर इति जाने जानामि खगातिगेनेति 'अन्यत्रापि दृश्यते' ( वा० ) इति गमेर्डः | ९ 'सूयोऽर्कः किरणो भगो ग्रहपुषः, पूषा पतङ्गः खगः' इति हैमः ॥ २८ ॥ श्रुत्वेति वाचं चरवऋगर्भादाचार्यधुर्यो मनसा विमृश्य | विवेकिनो नीतिविचारदक्षानु वाच सत्रे समवेतसूरीन् ॥ २९ ॥ आचार्येषु आचारयोग्येषु धुर्यो धुरीणो गौतमश्वरस्य हेरिकस्य १५ वऋगर्भात् मुखमध्यात् इत्युक्तप्रकारेण वाचं श्रुत्वा, पुनस्तां वाचं मनसा विमृश्य विचार्य, विवेकिनो विवेकवतः पुनर्नीति विचारे दक्षान् निपुणानू, सत्रे यज्ञे समवेताः संमिलिता ये सूरयः पण्डिता १८ व्यक्तादयस्तान् उवाच वक्ष्यमाणप्रकारेणोक्तवान् ॥ २९ ॥ यदुवाच तदाह १११ ब्रह्मा न विष्णुर्न हरोsपि नो वाsaधीरयेद्यो मखभागमिष्टम् । १ 'स्वकीयप्रभाभरेण सूर्यातिशायी ह्येष अत एव जगतामीश्वर' इत्यर्थः । १२ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy