________________
३
११०
श्री गौतमीयकाव्यं
वृत्तम्', इति वाग् जनमुखात् प्रकटीबभूवेत्यर्थः । विकास इति । विकसनं विकासः, भावे घञ् ॥ २५ ॥
१८
उपात्तवृत्तान्त इतो नियुक्तो वार्त्तायनोऽप्येवमुदाजहार । स्वामिन् ! प्रवृत्तामिह किंवदन्तीं सत्यामवेहि प्रणिधेहि चित्ते ॥
२६ ॥
इतो अस्माद्वचःप्रादुर्भावात् परं उपाचो गृहीतो वृत्तान्तो येन स उपात्तवृत्तान्तो नियुक्तः स्वयं व्यापारितो वार्त्तायनो हेरिक पुरुषोऽपि गौतमं प्रति एवमुदाजहार उक्तवान् । कथमित्याह – 'हे खामिन् ! इह प्रस्तावे प्रवृत्तां किंवदन्तीं लोकवार्त्ती सत्यामवेहि जानीहि, चित्ते प्रणिधेहि समाधेहि, स्थापयेति यावत् । वार्त्तायन इति । 'हेरिको १२ गूढपुरुषः * * * वार्त्तायनः स्पशश्चार' इति च हैमः । किंवद - न्तीमिति । 'जनश्रुतिः किंवदन्ती' इति च । अवेहीति । अवाइपूर्वादिणो लोट् । 'ओमाङोश्च' ( ६ । १।९५ ) इति पररूपम् ॥ २६ ॥ १५ पुनस्तामेव प्रवृत्तिं स हेरिकः प्राह -
वप्रत्रयान्तर्मणिपीठिकायां सिंहासने पुरुषः परात्मा । कोsपि स्थितस्तत्प्रणिपातहेतो
रायान्ति देवा हि विमानसंस्थाः ॥ २७ ॥ वप्रत्रयस्य प्राकारत्रयस्य अन्तर्मध्ये या मणिपीठिका तस्यामग्र्ये २१ प्रधाने सिंहासने कोऽपि परात्मा प्रकृष्टात्मा पुरुषः स्थितः, अस्तीति शेषः । हीति निश्चितं, तस्य पुरुषस्य प्रणिपातहेतोः प्रणामनिमित्तं २३ एते विमानसंस्था विमानस्थिता देवा आयान्ति ॥ २७ ॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org