________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १०९ समायाति, पुनर्नृत्यतां नृत्यं कुर्वतां सुरस्त्रीजनानां देवाऽङ्गनालोकानां यानि नपुराणि चरणाऽऽभरणानि तेषां ध्वनिर्निशम्यते, प्रमोदाहते प्रमोदं विना एते भावाः कथङ्कारं !, कथं भवन्तीत्यर्थः। अतः ३ सप्रमोदा एवैते देवा दृश्यन्ते इति भावः । 'अन्यथैवं कथम्' इत्यादिना सिद्धप्रयोगे कृमो णमुल् ॥ २३ ॥
'प्रभो! चिरं जीव चिरं विधेहि
त्रैलोक्यराज्यं जयतात्वमेव । आशिष्यते कोऽयमुदात्तगीर्भि
र्मुहुः सुरैः संप्रति गीतिपूर्ती १ ॥ २४ ॥ ९ 'हे प्रभो! हे खामिन् ! त्वं चिरं बहुकालं जीव जीवतात् , पुनश्चिरं त्रैलोक्यस्य राज्यं विधेहि कुरु, पुनस्त्वमेव जयतात् सर्वोत्कर्षण वर्तख', इत्थं उदात्तगीर्भिरुच्चैर्वाग्भिः सम्प्रति अधुना गीतिपूर्ती गान- १२ परिसमाप्तौ मुहुर्वारंवारं सुरैर्देवैरयं कः पुमान् आशिष्यते आशीविषयः क्रियते ॥ २४ ॥
इति ब्रुवत्येव तदा द्विजेन्द्र
प्रादुर्बभूवेति वचोविकासः। अदृष्टपूर्व किमहो अपापा
पुन्तिके विस्मयकारि वृत्तम् ॥ २५ ॥ १८ तदा तस्मिन्नवसरे द्विजेन्द्रे ब्राह्मणेश्वरे गौतमे इतीत्थं ब्रुवति वदत्येव सति इत्येवं वक्ष्यमाणप्रकारेण वचोविकासो वचसः स्फुटोच्चारः प्रादुर्बभूव । इतीति किं तदाह-'अहो इति आश्चर्येऽपापापुअन्तिके समीपे पूर्वमदृष्टं अदृष्टपूर्व विस्मयकारि आश्चर्यकारि किं २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org