________________
१०८
श्रीगौतमीयकाव्यं
उतेति वितर्के, वाऽथवाऽमी देवाः कैरपि उद्धतैः प्रबलैरमानां देवानामरिभिर्वरिभिः, दानवैरित्यर्थः । प्रसह्य बलात्कारेण अन्यतो ३ अन्यत्र प्रदेशे नीयन्ते प्राप्यन्ते । कैः के इव ? समीरैर्वायुभिर्मेघा इव । यथा समीरैर्मेघाः प्रसह्य अन्यत्र नीयन्ते तथेत्यर्थः । युक्तोऽयमर्थःखलुरवधारणे, श्रेयांसि श्रेयोभूतानि कार्याणि शश्वनिरन्तरं विघ्नवन्ति ६ अन्तराययुक्तानि सम्भवन्त्येव, अतोऽत्रापि मङ्गलकार्ये देवागमने किमपि विघ्नमभूदिति भावः ॥ २१ ॥
वृथाऽथवाऽनेन विमर्शनेन
सृतं यतः प्रत्युत सप्रमोदाः। दृश्यन्त एते, खलु चित्तवृत्ति
लक्ष्येत लिङ्गैरिह देहभाजाम् ॥ २२ ॥ १२ अथवाऽनेन वृथा विमर्शनेन व्यर्थ चिन्तनेन सृतं पर्याप्तं यत एते देवाः प्रत्युत सप्रमोदाः सहर्षा दृश्यन्ते । खलु निश्चितं, इह लोके
देहभाजां प्राणिनां चित्तवृत्तिर्मनोव्यापारो लिङ्गैश्चिकैर्लक्ष्येत ज्ञायेत, १५ सुधीभिरिति शेषः । अतो नैषां वैरिकृतोपद्रुतिसम्भव इति भावः ॥२२॥
तथा हि वीणाक्वणनं मृदङ्ग
ध्यानस्तथा किन्नरगीतनादः। नृत्यत्सुरस्त्रीजननूपुराणां
__ ध्वनिः कथङ्कारमृते प्रमोदात् ॥ २३ ॥ तथा हि तान्येव प्रमोदचिहानि दर्शयति-इह तावद्वीणानां कणनं शब्दः श्रूयते, पुनर्मुदङ्गानां ध्वानो ध्वनिराकर्ण्यते, तथा तेनैव २२ प्रकारेण किन्नराणां देवविशेषाणां गीतनादो गानध्वनिः श्रुतिपथं
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org