________________
गौतमीयप्रकाशाख्यटीकया सहितम् । १०७ जगाद चैवं जगदीश्वरीयं
हन्ताऽज्ञतैव प्रतिभाति विश्वे । नो चेदिदं यागपदं विमुच्य
भ्रान्ताः कथं हव्यभुजो भ्रमन्ति ? ॥ १९॥ च पुनर्गौतम एवं जगाद वदति स्म, हन्तेति विषादे विश्वे लोके जगत ईश्वरी जगदीश्वरी जगत्वामिनी इयमज्ञता मूर्खता एवं प्रति-६ भाति प्रतिभासते, चेद्यदि एवं नो स्यात् तर्हि इदं यागपदं यज्ञस्थानं विमुच्य त्यक्त्वा हव्यभुजो देवाः भ्रान्ता भ्रान्तचित्ताः सन्तः कथं भ्रमन्ति ? ततो देवानामप्यन्यत्र गमनाद् ज्ञायते जगदीश्वरी अज्ञ-९ तैवास्तीति भावः ॥ १९ ॥
विज्ञातुमिच्छन्ति परोक्षमर्थं
येभ्यो जनाः क्वाऽपि हि सन्दिहानाः। १२ प्रत्यक्षमप्यर्थमिमे विदुर्न
ज्ञातं ! तदेषां विबुधाभिधानम् ॥ २० ॥ हीति निश्चितं, क्वापि कस्मिन्नपि अर्थे सन्दिहानाः सन्देहं बिभ्राणा १५ जना लोका येभ्यो देवेभ्यः परोक्षमप्रत्यक्षमर्थ विज्ञातुमिच्छन्ति, ते इमे देवाः प्रत्यक्षमप्यर्थं यज्ञलक्षणं न विदुर्न जानन्ति, तत्तस्मात्कारणादेषां देवानां विशेषेण बुध्यन्तीति विबुधा इत्येवंरूपमभिधानं नामधेयं १८ ज्ञातं!, वृथैवैषामेतन्नामेत्यर्थः । विशेषार्थापरिज्ञानादिति भावः॥२०॥
कैरप्यमारिभिरुद्धतैर्वा . प्रसह्य नीयन्त उतान्यतोऽमी ।
२१ मेघाः समीरैरिव, विघ्नवन्ति
श्रेयांसि शश्वत्खलु सम्भवन्ति ॥ २१॥ २३
.VVVVAAAA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org