SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ .. श्रीगौतमीयकाव्यं स्यात् ? न कापीत्यर्थः । कलम्बेति । 'कलम्बो नालिकाशाके पृषत्के नीपपादपे' इति अनेकार्थः ॥ १६ ॥ निरीक्ष्य तानाशुगतिप्रवृत्तान् स्वछात्रवृन्दावृतगौतमस्य । हर्षस्मयौ शोकरुषावभूतां गते इव क्षौद्रघृते विपत्वम् ॥ १७ ॥ आशु शीघ्रगतौ, अन्यत्र गमने प्रवृत्तान् तान् देवान् निरीक्ष्य दृष्ट्वा, स्थितस्येति शेषः । खछात्राणां खशिष्याणां वृन्दैः समूहैरावृतस्य ९ वेष्टितस्य गौतमस्य हर्षस्मयौ प्रमोदमानौ शोकरुषौ खेदक्रोधौ अभूताम् । उत्प्रेक्षते-क्षौद्रघृते मधुहविष्ये विषत्वं गते प्राप्ते इव 'संयुक्ते मध्वाज्ये विषरूपे भवत' इत्युक्तरुत्प्रेक्षेयम् । स्मयाविति । १२ 'मानश्चित्तोन्नतिः स्मय' इति हैमः ॥ १७ ॥ वैवर्ण्यमास्थाय तदेन्द्रभूतिः खिन्नो गतद्रव्य इवात्मवृत्त्या । निर्धारितार्थादितरत् किमेत त्यावर्त्ततेति स्वधिया निदध्यौ ॥ १८ ॥ तदा तस्मिन्नवसरे इन्द्रभूतिौतमो विवर्णस्य भावो वैवयं विच्छा१८ यत्वमास्थाय प्राप्य गतं द्रव्यं यस्य स गतद्रव्य इव खिन्नः शोकातुरः सन् , आत्मवृत्त्या खमनोव्यापारेण निर्धारितो निश्चयीकृतो योऽर्थस्तस्मादितरदन्यद् विपरीतं किमेतत् कार्य प्रावर्तत प्रवृत्तं सञ्जात. मित्यर्थः । इतीत्थं स्वधिया खबुद्ध्या निदध्यौ चिन्तयामास । २२प्रावर्त्ततेति । 'वृतु वर्तने' प्रपूर्वादस्माकर्तरि लङ् ॥ १८ ॥ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy