SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । १०५ इतीत्थं गुरोर्गौतमस्य उक्तवाक्येन कथितवाक्येन सहर्षा हर्षवन्तस्तत्खण्डिकास्तस्य गौतमस्य शिष्या एतं गौतममेव तुष्टुवुः स्तुवन्ति स्म। कथं तुष्टुवुरित्याह-हे भगो! हे पूज्य! ते तुभ्यं नमोऽस्तु यद्य-३ स्मात्कारणात् तवैव शक्तेराकृष्टा देवाः इह मर्त्यलोकेऽभियन्ति आगच्छन्ति, अभिपूर्वादिणः कर्तरि लट् । 'इणो यण' (६।४।८१) इति यण् ॥ १४ ॥ अश्रौष्म यन्मन्त्रमहाप्रभावा द्यागेषु देवागमनं पुराऽभूत् । तत्साम्प्रतं दर्शितमागमस्य प्रामाण्यमसाद् गुरुणा त्वयैव ॥ १५ ॥ पुरा पूर्व यागेषु यज्ञेषु मन्त्राणां महाप्रभावात् देवानामागमनमभूत् इति यद्वयमश्रौष्म शृणुमः स्म, तत्साम्प्रतमधुना आगमस्य वेदस्य १२ प्रामाण्यं प्रमाणत्वमस्मान् प्रति त्वयैव गुरुणा साक्षाद्दर्शितम् । इह यज्ञे साक्षाद्देवागमदर्शनादिति भावः ॥ १५ ॥ इत्थं वदत्स्वेव तदा द्विजेषु ग्रामं तमुल्लङ्घन्य कलम्बगत्या । ययुः सुराः सत्वरयानसंस्थाः, व वा विलम्बो महतां मुधा स्यात? ॥ १६ ॥ १० तदा तस्मिन्नवसरे द्विजेषु ब्राह्मणेषु इत्थमनेन प्रकारेण वदत्स कथयत्सु सत्सु एवं सत्वरयानसंस्थाः वेगवद्वाहनस्थिताः सुरा देवाः कलम्बगत्या बाणसदृशगत्या तं ग्राममुल्लङ्य ययुरग्रतो यान्ति स्म । वाऽथवा, युक्तोऽयमर्थः-महतां महात्मनां मुधा वृथा विलम्बः क २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy