________________
१२
ताद्य देवानिह सप्ततन्तौ
प्रत्यक्षतः पश्यत नः प्रसादात् ॥ १२ ॥ ३ बहुभिर्ध्यानैः स्मरणैर्बहुभिर्जपैर्मन्त्रादिपाठैर्बहुभिस्तपोभिरुपवासादिभिर्मत्य मनुष्या यान् देवान् खप्नेऽपि द्रष्टुं विलोकयितुं नाऽलं न समर्थाः, तान् देवान् अद्य अस्मिन् दिने इहास्मिन् सप्ततन्तौ यज्ञे ६ नोऽस्माकं प्रसादात् प्रत्यक्षतः पश्यत यूयं । सप्ततन्ताविति । 'यज्ञो यागः सवः सत्रं स्तोमो मन्युर्मखः क्रतुः । संस्तरः सप्ततन्तुश्चे' त्यादि हैमः ॥ १२ ॥
ततः सुराणामिह याज्ञिका भोः ! स्तुतौ सपर्योपनतौ यतद्धम् । दुराप एषोऽवसरो नराणां
क लभ्यते सङ्गम ईश्वराणाम् १ ॥ १३ ॥ ततस्तस्मात्कारणात् भो याज्ञिकाः ! इह प्रस्तावे सुराणां देवानां स्तुतौ स्तुतिकरणे, पुनः सपर्यायाः पुष्पादिपूजायाः उपनतौ १५ समीपनयने प्रगुणीकरणे इत्यर्थः, यूयं यतध्वं यत्नं कुरुध्वं । नराणां मनुष्याणामेषोऽवसरो दुरापो दुर्लभः, अस्तीति शेषः । यत् ईश्वराणामैश्वर्यवतां सङ्गमः संसर्गः क्व लभ्यते : यथा तथा न लभ्यते इत्यर्थः । १८ नराणामिति । शेषे षष्ठी, न तु 'कर्तृकर्मणोः कृति ' ( २/३/६५ ) इति, 'न लोकाव्यय-' ( २/३/६९ ) इति निषेधात् ॥ १३ ॥
1
२१
१०४
२३
श्री गौतमीयकाव्यं
इत्युक्तवाक्येन गुरोः सहर्षा - स्तत्खण्डिकास्तुष्टुवुरेतमेव । भगो नमस्ते तव चैव शक्तेराकृष्टदेवा यदिहाभियन्ति ॥ १४ ॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org