________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
कास्पदाकया साहतम् ।
१०३
जनानां मोहोत्पादकः, पुनश्चन्द्रोपलैश्चन्द्रकान्तरत्नोतिताश्चन्द्रशालाः शिरोगृहाणि यस्य स तथोक्तः । पुनः पुनः स्फुरन्त्यश्चलन्त्यः पताका ध्वजा येषु ते तैः शिखरैः खमाकाशं स्पृशन् ॥ ९॥ तथा प्रफुल्ला ३ विकसिता या सन्ध्या तस्यां यानि अभ्राणि वादलानि तैः समास्तुल्याः तैर्वितानैश्चन्द्रोदयैर्नद्धा बद्धा छदिरुपरितनभागो यस्य स तथोक्तः। पुनश्चित्रिताश्चारवो मनोहरा भित्तयो यस्य स तथोक्तः। पुनःप्रलम्बैर्लम्ब-६ मानहीरैरञ्चिताः प्रशस्ता नागदन्ता भित्तिस्थकीलका यस्य स तथोक्तः। पुनर्मुक्ताश्च मण्यश्च मुक्तामण्यस्तासां मौक्तिकानां मणीनां च ग्रथितानां जालैः समूहैर्लसन्ति शोभमानानि वलीकानि नीवाणि छदिःप्रान्तानि ९ यस्य स तथोक्तः ॥१०॥ तथा मृदङ्गवीणापणवानां वाद्यविशेषाणामारवैः शब्दैराढ्यः समृद्धः । पुनर्घण्टानां निनादैः शब्दैनितरां भृतमन्तरिक्षमाकाशं येन स तथोक्तः । अग्रेतनपादद्वयस्यान्वयः प्रागुक्त १२ एव नवमश्लोके-पाश्चालिकेत्यादि । 'पाञ्चालिका च पुत्रिके'ति हैमः। लोभयतीति लोभनीयः 'लुभ विमोहने' ण्यन्तादस्मात् 'कृत्यल्युटो बहुलम्' (३।३।११३) इति कर्तरि 'अनीयर' । 'चन्द्रशाला १५ शिरोगृह'मिति हैमः । दशमश्लोके–वितानैरित्यादि । 'अथोल्लोचो वितानं कदकोऽपि च । चन्द्रोदये' इति हैमः । 'पटलच्छदिषी समे । नीव्र वलीकं तत्प्रान्त' इति च 'नागदन्तास्तु दन्तका' इति १८ च (हैमः) । एकादशे श्लोके-वार इति । 'वारः सूर्यादिवासरे । महे खराऽवसरयोवृन्दे कुजाख्यपादपे' इत्यादि अनेकार्थः ॥११॥ पुनर्गौतम आहध्यानपैर्वा बहुभिस्तपोभिः
स्वप्नेऽपि यान् द्रष्टुमलं न माः ।
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org