SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १०२ श्रीगौतमीयकाव्यं सुजातजालाकलितः समन्तात् * पाञ्चालिकाविभ्रमलोभनीयः। चन्द्रोपलद्योतितचन्द्रशालः स्फुरत्पताकैः शिखरैः स्पृशन्खम् ॥९॥ प्रफुल्लसन्ध्याभ्रसमैर्वितानै नद्वच्छदिश्चित्रितचारुभित्तिः। प्रलम्बहाराञ्चितनागदन्तो मुक्तामणीजाललसद्वलीकः ॥१०॥ मृदङ्ग-वीणा-पणवा-ऽऽरवाढ्यै घण्टानिनादैनिभृतान्तरिक्षः । आयाति नो मन्त्रनिमत्रितो य१२ दिवो भुवं देव विमानवारः ॥ ११॥ ___ चतुर्भिः कलापकम् । अहो लोकाः! यद्यस्मात्कारणात् अयं साक्षादुपलभ्यमानो रम्यो १५ मनोज्ञो नोऽस्माकं मन्त्रैर्निमन्त्रितो देवविमानानां वारः समूहो दिवः खर्गाद्भुवं पृथ्वी आयातीत्यन्वयः । अथ विशेषणानि-अयं किं कुर्वन् । उत्तेजितानि शाणादिना उद्दीप्तीकृतानि यानि रत्नानि तेषां १८ भाः प्रभास्ताभिः शक्रशरासनस्य इन्द्रधनुष आभां प्रभां विडम्बयन् तिरस्कुर्वन् । पुनः कीदृशोऽयम् । सहस्रपत्रस्य कमलविशेषस्येवाकृतिरा कारो येषां तानि एवंविधानि यानि तेषु प्रतिष्ठितः पुनः स्तम्भानां १. सहस्रः शोभते तच्छीलः स्तम्भसहस्रशोभी ॥ ८ ॥ तथा सुजातै - देवप्रभावात् सुनिष्पन्नैर्जालैर्गवाक्षरासमन्तात् कलितो युक्तः, पुनः २३ समन्तात्सर्वदिक्षु पाञ्चालिकानां पुत्रिकाणां विभ्रमैर्विलासैोभनीयो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy