SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ३ गौतमीयप्रकाशाख्यटीकया सहितम् । दृश्येत गन्धर्वपुरं किमत्रो त्पातस्वरूपं श्रुतविश्रुतं वा । एवं वितर्के बहुभिर्नुलोकः स्वास्थ्य न लेभेऽद्भुतभीतियोगात् ॥६॥ अत्र किं गन्धर्वपुरं व्यन्तरनगरं दृश्येत ? वा अथवा श्रुते सिद्धान्ते विश्रुतं प्रसिद्धं किमेतदुत्पातखरूपं दृश्येत? एवममुना प्रकारेण अद्भु-६ तभीतियोगात् आश्चर्यसंयोगाबहुभिर्वितर्कविकल्पैर्नुलोको मनुष्यलोकः खास्थ्यं स्वस्थचित्ततां न लेभे न प्राप्तवान् । अद्भुतेत्यादि । 'विस्मयश्चित्रमद्भुत'मिति हैमः । अद्भुतं च भीतिश्चाद्भुतभीती तयोयोग९ इति समासः ॥ ६॥ इत्थं तथाऽस्वास्थ्यपथावतीर्णाञ् जनानवादीद्गुरुरिन्द्रभूतिः। क्रतोरनालोच्य महाप्रभाव महो ! मुधा तर्कयताऽनृतं किम् ? ॥ ७ ॥ तथा तेन प्रकारेण अस्वास्थ्यपथमस्थिरचित्ततामार्गम् अवतीर्णान १५ प्रविष्टान् जनान् इन्द्रभूतिगुरुरित्थमवादीत् एवमुक्तवान् । इत्थं कथमित्यत आह-'अहो लोकाः! क्रतोयज्ञस्य महाप्रभावमनालोच्य अविचार्य मुधा वृथाऽनृतमसत्यं किं तर्कयत ?' यूयमिति कर्तृपदं क्रियाभि-१८ संबन्धार्थ ग्राह्यम् ॥ ७ ॥ तर्हि किमिदमकस्मात्समायातीत्याशङ्कानिरासार्थ गौतम आहरम्योऽयमुत्तेजितरत्नभाभिर्विडम्बयञ्छक्रशरासनाभाम् । सहस्रपत्राकृतिरत्नपीठप्रतिष्ठितः स्तम्भसहस्रशोभी ॥८॥२२ १ किमत्रोत्पादस्वरूप' इति काशीमुद्रितपाठश्चिन्यः । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy