________________
श्रीगौतमीयकाव्यं
सदैक एवोदयमेति सूर्यः
श्रुतौ श्रुता वा यधिका दशैव । ३. आ! कोटिशोऽहर्पतयः कुतोऽमी
संशेरते मेति जनास्तदानीम् ॥ ४॥ तदानी तस्मिन्नवसरे जना लोका इति संशेरते स इति संशयं ६ दधुः । इतीति किं तदाह-सदा निरन्तरं एक एव सूर्य उदयमेति प्रामोति, वा अथवा श्रुतौ शास्त्रे द्वाभ्यामधिका व्यधिका दश द्वादशैव सूर्याः श्रुताः, सन्तीति शेषः । आ इति आश्चर्ये, 'अमी साक्षाद्वि९लोक्यमानाः कोटिशोऽहप्पतयः सूर्याः कुतः समेताः ?' इति संदेह दधुरित्यर्थः । कोटिश इति वीप्सायां शस् । संशेरते इति ।
संपूर्वात् शीङः कर्तरि लट् ॥ ४ ॥ १२ नित्याऽन्तरिक्षभ्रमिखेदखिन्नं
ज्योतिष्कचक्रं भुवमापतेत् किम् ? । इत्थं मुहुः संशयशैलशृङ्गारोहा
वरोहे जनताऽऽकुलाऽभूत् ॥५॥ 'नित्यं निरन्तरमन्तरिक्षे आकाशे या भ्रमिभ्रमणं तया उत्पन्नो यः खेदस्तेन खिन्नं ज्योतिष्कचक्रं ज्योतिर्मण्डलं किं भुवं पृथ्वीमापतेत् ? १८ इत्थं जनता जनसमूहो मुहुर्वारंवारं संशय एव शैलशृङ्ग पर्वतशिखरं
तत्र आरोहाऽवरोहे आरोहणाऽवतरणे आकुलाऽभूत् । आरोहेत्यादि।
पूर्वमारोहः पश्चादवरोह आरोहावरोहः । 'पूर्वकालैकसर्वजरत्-' २० (२।११४९) इत्यादिना समासः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org