________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
९९
इत्यादिना क्यङ्, ततः शानच् । यायजूकानिति । 'इज्याशीलो यायजूक' इति हैमः । अस्मिन् सर्गे इन्द्रवज्रोपेन्द्रवज्रोपजातिछन्दांसि, तल्लक्षणानि च प्रथमसर्गे एवोक्तानि ॥ १ ॥
नभस्तलं पुष्कलमप्यमुष्माद् ग्रामादपापानगरीं च यावत् 1 सम्बाधमैक्षिष्ट महाविमानैश्चित्रीयमाणोऽत्र समस्तलोकः ॥ २ ॥
अत्रास्मिन्नवसरे चित्रीयमाणः आश्चर्यं प्राप्नुवन् समस्तलोकः ६ पुष्कलं प्रचुरमपि नभस्तलमाकाशममुष्मादस्माद् गुर्वराभिधानाद्रामात् अपापानगरीं यावत् । महाविमानैः सम्बाधं सङ्कीर्ण ऐक्षिष्ट दृष्टवान् । पुष्कलमिति । 'प्राज्यं प्रभूतं प्रचुरं बहुलं बहु पुष्कल' मिति हैमः | ९ चः पादपूरणे । सम्बाधमिति । 'सम्बाधः सङ्कटे योना ' वित्यनेकार्थः । सङ्कटं सङ्कीर्णं चित्रीयमाण इति चित्रं करोति चित्रीयते, विस्मयते इत्यर्थः । ' नमोवरिवश्चित्रङः क्यच्' (३|१|१९ ) अत्र १२ क्यच् विधानमीत्वार्थं, ङित्करणं तु तर्थं, ततः शानच् ॥ २ ॥ उगीवमुत्प्रेषितचित्तनेत्राः सविस्मयाः संस्तरकारलोकाः । हविः स्रुचोपात्तमपि प्रदातुं हविर्भुजे न प्रभवो बभूवुः ॥ ३ ॥ १५ तदा तत् ऊर्ध्वा ग्रीवा यत्र तद् उगीवं यथा स्यात्तथा क्रियाविशेषणमिदम् । उत्प्रेषितानि ऊर्ध्वं प्रहितानि 'चित्तनेत्राणि मनोनयनानि यैस्ते तथोक्ताः, यतः सह विस्मयेन आश्चर्येण वर्त्तन्ते इति सविस्मयाः, १८ एवंविधाः संस्तरकारलोका यज्ञकारकजनाः सुचा यज्ञपात्रेण उपात्तं गृहीतमपि हविर्हव्यद्रव्यं हविर्भुजे वह्नये प्रदातुं प्रभवः समर्था न बभूवुः । संस्तरेत्यादि । 'संस्तरः सप्ततन्तुश्च वितानं बर्हिरध्वर' इति हैमः । संस्तरं कुर्वन्तीति संस्तरकाराः । कर्मण्यण् ततः कर्मधारयः ॥ ३ ॥ २२ १ चित्तानि च नेत्राणि च चित्तनेत्राणि, यद्वा चितैर्युक्तानि नेत्राणीति समासः ।
"
Jain Education International For Private & Personal Use Only
www.jainelibrary.org