SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ९८ श्रीगौतमीयकाव्यं इत्थमुक्तप्रकारण खगस्यावाप्ता प्राप्त्य ज्यातष्टामनामक यज्ञं वितन्वन् विस्तारयन् , कुर्वन्निति यावत् । विधि जानातीति विधिज्ञ ३इन्द्रभूतिः द्रङ्गस्योर्ध्व नगरस्योपरि वर्गमार्गात्सवेगं सत्वरं आगच्छन्ति आगमनक्रियां कुर्वाणानि देवयानानि देवविमानानि अपश्यत् पश्यतिस्म । द्रङ्गस्येति । 'नगरी पू: पुरी द्रङ्ग' इति हैमः । इदं शालिनी ६ छन्दस्तल्लक्षणं तु 'शालिन्युक्ता म्रौ तगौ गोऽब्धिलोकैरिति ॥ ३८॥ इति यज्ञवर्णनो नाम चतुर्थः सर्गः॥ ४ ॥ इति स्पष्टम् ॥ ९ इति श्रीगौतमीयप्रकाशाख्यायां श्रीगौतमीयमहाकाव्यव्याख्यायां चतुर्थः सर्गः ॥ ४ ॥ पञ्चमः सर्गः। १२ आकस्सिको व्योमनि दिव्यनादो विचित्रवादित्रनिनादरम्यः । शब्दायमानानपि यायजूकानूर्वावलोकप्रयतांश्चकार ॥१॥ विहाय यज्ञं भुवि यस्य सेवना-कृते समेतान् प्रविलोक्य निर्जरान् १५श्रीगौतमो हर्षविषादभागभूत् स वर्द्धमानःप्रतिभा पुनातु मे ॥१॥ विचित्राणि नानाविधानि यानि वादित्राणि तेषां निनादः शब्द स्तेन रम्यो मनोज्ञः अकस्माद्भव आकस्मिको व्योमन्याऽकाशे दिव्य १८ नादो देववृन्दकोलाहलजनितो दिव्यध्वनिः, शब्दायमानान् वेद. ध्वनिरूपं शब्दं कुर्वाणानपि यायजूकान् यज्ञकर्तृब्राह्मणान् ऊर्ध्वा वलोके उच्चैर्विलोकने प्रयतास्तत्परान् चकार कृतवान् । शब्दे२१ त्यादि । शब्दं कुर्वन्तीति विग्रहे 'शब्दवैरकलह-' (३।१।१७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy