________________
गौतमीयप्रकाशाख्यटीकया सहितम् । ९७ तत्र तस्मिन् यज्ञस्थाने हविहाँतव्यद्रव्यमुपाददानो गृह्णन् अत एवं धगत् धगदित्येवंरूप उत्थित उत्पन्नो यः शब्दस्तेन सुन्दरो रम्यः, पुनः प्रदक्षिणा अर्चिषो ज्वाला यस्य स तथोक्त एवंविध उद्धतोऽनल ३ उत्पतितो वह्निः आशु शीघ्रं आहुतिमन्त्रवादिनो जनस्य होममन्त्रपाठकलोकस्य मुदं प्रीतिमजीजनत् उत्पादयति स्म । धगद्धगेतीति । धगदित्यऽव्यक्तानुकरणशब्दस्तस्य 'डाचि बहुलम्' (वा०) इति बहु-६ लवचनावित्वं न 'आमेडितस्य' (८।२।९५) इत्यादिनाऽन्त्यतकारस्य इति-' शब्दे परे पररूपं, तत 'आद्गुणः' (६।१।८७) मुदमिति । 'मुत्प्रीत्याऽऽमोदसंमदा' इति हैमः ॥ ३६॥ मुहुः सुरोद्देश्यकहव्यपाततः समुत्थधूमो गगनं समास्वजत् । सुपर्वणां तत्क्षणहूतिहेतवे प्रणोदितोऽध्वर्युभिरादरादिव ॥३७॥ __सुरा देवा उद्देश्या उद्देष्टुं योग्या यस्मिन्स सुरोद्देश्यकः, स चासौ १२ हव्यस्य पतनं हव्यपातश्चेति कर्मधारयस्तस्मात् मुहुर्वारंवारं सुरोद्देश्यकहव्यपातात् समुत्थधूम उत्पन्नधूमोऽध्वर्युभिर्यज्ञकर्तृभिरादराबहुमानतः सुपर्वणां देवानां तत्क्षणं तत्कालं हूतेराकारणस्य हेतवे १५ निमित्ताय प्रणोदितः प्रेरित इव गगनमाकाशं समाखजत् आलिङ्गति स्म । 'प्वञ्ज परिष्वङ्गे' अस्माकर्तरि लङ् । 'दंशसञ्ज-' (६।४।२५) इति नलोपः ॥ ३७॥
इत्थं ज्योतिष्टोमयज्ञं वितन्वन् ___ वर्गावाप्यायिन्द्रभूतिविधिज्ञः। आगच्छन्ति स्वर्गमार्गात्सवेगं
द्रुङ्गस्योर्ध्वं देवयानान्यपश्यत् ॥ ३८॥ २२ ७ गो. का.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org