SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीगौतमीयकाव्यं . समाहिताः समाधिमन्तो येऽध्वर्युवरा यजुर्विद्याज्ञिकश्रेष्ठास्तैरनूदितौ पश्चाजस्पिती जाया च पतिश्च जम्पती स्त्रीभर्तारौ सुरान् ३ देवान् समुद्दिश्य नामोत्कीर्तनेन समुच्चार्य संमुखेन पाणिना करेण उपात्ता गृहीता तया शुचिस्रुचा निर्मलहोमपात्रेण ध्रुवायां पात्रविशेष आहितं स्थापितं हविर्हव्यद्रव्यं धनञ्जयं वहिं भोजयतः स्म भोजया६मासतुः । अत्र 'गतिबुद्धि-' (११४५२) इत्यादिनाऽणिकर्तुंर्धनञ्जयस्य णौ कर्मत्वं । ध्रुवेति । 'ध्रुवा तु सर्वसंज्ञार्थ यस्यामाज्यं निधी. यते' इति हैमः । अध्वविति । 'यजुर्विदध्वर्युरिति हैमः ॥३४॥ गृहीतहव्यो ज्वलनस्तदा मखे दधौ महाज्वाल इतीव गौरवम् । __ अवाप्तभोगः खलु पूर्वरूपतो ___ दंधात्यपूर्वां वररूपसम्पदम् ॥ ३५ ॥ _ 'होमानिस्तु महाज्वाल' इति कोशात् । होमवह्निर्महाज्वाल उच्यते । तत्र कविरुत्प्रेक्षते-तदा तस्मिन्नवसरे मखे यज्ञे गृहीतं हव्यं १५ येन स गृहीतहव्यो ज्वलनो वह्निर्महत्यो ज्वाला यस्य स महाज्वाल इति नाम्ना गौरवं गुरुत्वमिव दधौ धारयति स्म । युक्तोऽयमर्थः खलुरवधारणेऽवाप्ताः प्राप्ता भोगा भोज्यानि येन स अवाप्तभोगो १८ जन्तुः पूर्वरूपतः खस्य प्राक्तनरूपाच अपूर्वां नवीनां वररूपसंपदं -दधाति खलु, धारयत्येवेत्यर्थः ॥ ३५ ॥ उपाददानो हविरुद्धतानलो धगद्धगेत्युत्थितशब्दसुन्दरः । २१ प्रदक्षिणार्मुिदमाश्वजीजनजनय तत्राहुतिमत्रवादिनः॥३६॥ १ 'दधावपूर्वाम्' इति काशीमुद्रितपुस्तकस्थः पाठश्चिन्त्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy