________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
ततो होमकुण्डस्थो हिरण्यरेता वह्निः अनिलेन वायुना ईरितः प्रेरितः सन् शम्या होमोचितवृक्षविशेषस्य समिद्भिरिन्धनैमिश्राणि मिलितानि यानि पलाशस्य किंशुकवृक्षस्य तर्पणानि इन्धनानि तैर्व-३ वृधे वर्द्धते स्म । युक्तोऽयमर्थः-मनोमतान्मनोऽभिलषिताद्भोजनस्य लाभतः प्राप्तेरपरं अन्यत् पुद्गलानां कार्यादीनां पोषस्य पुष्टेः कारणं किमुच्यते लोके किं कथ्यते ?, न किमपीत्यर्थः । आहार एव सर्वेषां ६ पुष्टिकारणमिति भावः । हिरण्यरेता इति । 'वहिव॒हद्भानुहिरण्यरेतसा विति हैमः । तर्पणैरिति । 'समिदिन्धनमेधेमतर्पणैधांसी'ति च ॥ ३२ ॥ अथो हवित्रीमुपसृत्य दम्पती प्रदक्षिणीकृत्य गृहीतविष्टरौ । धृतवतौ यष्टमुखरिता ऋचोऽनुभाषमाणौ प्रयतौ बभूवतुः॥३३॥ __ अथो अनन्तरं हवित्री होमकुण्डं उपसृत्य तत्समीपमागत्य तां १२ प्रदक्षिणीकृत्य गृहीतविष्टरमासनं याभ्यां तौ पुनघृतं व्रतं यज्ञोचितनियमो याभ्यां तौ, पुनर्यष्टा याजकस्तस्य मुखेन ईरिताः प्रेरिता या ऋचो वेदशाखास्ता अनुभाषमाणौ पश्चात् पठन्तौ जाया च पतिश्च १५ दम्पती, सपत्नीक इन्द्रभूतिरित्यर्थः । प्रयतौ हविर्दाने तत्परौ बभूवतुः अभूताम् । हवित्रीमिति । 'हवित्री तु होमकुण्ड'मिति हैमः ॥ ३३॥ सुरान् समुद्दिश्य हविर्भुवाऽऽहितं
समाहिताध्वर्युवरैरनूदितौ । शुचिमुचा संमुखपाण्युपातया
धनञ्जयं भोजयतः स जम्पती ॥ ३४॥ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org