________________
९४
श्रीगौतमीयकाव्यं
हारतया स्थापितैर्देवैः सह वर्तमानं देवमण्डलं शक्रादिसुरसमूह क्रमतोऽनुक्रमेण आर्यया शोभनखरूपया प्रदीपधूपादिसपर्यया दीप. ३धूपादिपूजया आर्चिचन् अर्चयन्ति स्म । सपर्ययेति । 'पूजाऽर्हणा सपर्याऽचेति हैमः ॥ ३०॥
अथाऽरणेमन्थसमुत्थपावकं
प्रणीतमृक्पाठसखैरिषेत्विकैः । निनाय कुण्डं विधिवत् प्रकल्पितं
हुताशदिश्येव स देवयाजकः ॥ ३१ ॥ ९ अथाऽनन्तरं स देवयाजको हविर्दानादिना देवपूजकोऽमिभूत्यादिः ऋक्पाठस्य वेदशाखापाठस्य सखायः सहाया ऋपाठसखाः मन्त्र.
गभितवेदशाखापाठयुक्तास्तैरिषेत्वकैर्वेदाध्यायविशेषैः प्रणीतं संस्कृतं ३२ अरणेररणिकाष्ठस्य मन्थेन मथनेन समुत्थं समुत्पन्नं पावकं वहिं
मुख्यं कर्म हुताशस्याऽग्निदेवस्य दिग् हुताशदिक् तस्यां आमेय्यां दिशि एव विधिवत् वेदोक्तप्रकारेण प्रकल्पितं रचितं कुण्डं होमकुण्डं ३५ निनाय प्रापयामास, होमकुण्डे स्थापयति स्मेत्यर्थः । णीञ्-धातोकि
र्मकत्वात्कुण्डमित्यत्र 'अकथितं च' (१।४।५१) इति कर्मसंज्ञा ।
प्रणीतमिति । 'प्रणीतः संस्कृतोऽनल' इति हैमः । सखैरिति । १८ राजाहःसखिभ्यः-' इति टच । इषेत्वकैरिति । 'इषेत्वा' शब्दोऽस्ति
एष्विति इषेत्वकाः वेदाऽध्यायविशेषाः 'गोषदादिभ्यो वुन्' (५।४। ६२) इति मत्वेऽर्थेऽध्येयानुवाकयोः ॥ ३१ ॥
हिरण्यरेता ववृधेऽनिलेरितः शमीसमिन्मिश्रपलाशतर्पणैः। १२ मनोमताद्भोजनलाभतोऽपरं किमुच्यते पुद्गलपोषकारणम् १ ३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org