SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् ९३ कीलक' इति हैमः । सुचित्रयामिति । 'चित्र चित्रकरणे' आलेख्यकरणे इत्यर्थः । चुरादिरदन्तोऽयमस्माण्णिजन्ताल्लिट्याम् ॥ २८॥ ततस्ते किं कुर्वन्ति स्मेत्याहकुशासनस्थाः कुशपूतपाणयः श्रुतिप्रयोगे स्वरचारचारिणः। द्विजातिधुर्याः प्रतिकोष्ठकल्पितान् खनामवादेन सुरानतिष्ठिपन् ॥ २९॥ कुशासनेषु दर्भमयासनेषु तिष्ठन्तीति कुशासनस्थाः, पुनः कुशेन पूताः पवित्राः पाणयो हस्ता येषां ते कुशपूतपाणयः पुनः श्रुति-९ प्रयोगे वेदपाठोच्चारणे खराणामुदात्तादीनां चारसंचारस्तेन चरन्ति प्रवर्तन्ते तच्छीलाः खरचारचारिणः एवंविधास्ते द्विजातिषु ब्राह्मणेषु धुर्या धुरन्धराः कोष्ठं कोष्ठं प्रतीति प्रतिकोष्ठं कल्पितान् मनसि १२ चिन्तितान् सुरान् इन्द्रादीन् देवान् खनामवादेन खखनामोच्चारणेन अतिष्ठिपन् स्थापयन्ति स्म । अतिष्ठिपनिति । हेतुमण्णिजन्तात्स्थाधातोः कर्तरि लुङ् ॥ २९॥ ततः सदौवारिकदेवमण्डलं प्रदीप-धूपादिसपर्ययाऽऽर्यया। गृहाण पूजामिति पाठतत्परा स्त्रिधाविशुद्ध्या क्रमतोऽमुमार्चिचन् ॥ ३०॥ ततः सुरस्थापनानन्तरं भो भो इन्द्रादिदेव! इह महोत्सवे आगच्छ पूजां गृहाण इत्याकारको यः पाठ उच्चारणं तत्र तत्परास्ते ब्राह्मणास्त्रिधाविशुद्ध्या मनोवाकायशुध्याऽमुं पुरः स्थापितं दौवारिकैः प्रती-२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy