SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीगौतमीयकाव्यं ते प्राज्ञब्राह्मणा दिन-लम-भ-ग्रहैः दिवस-लग्न-नक्षत्र-ग्रहैः प्रशस्तकाले शोभनवेलायां विधिमनतिक्रम्येति यथाविधि वेदोक्तविध्यनुसारेण ३ चतुरैस्तद्विधिनिपुणैः पुरुषैर्भुवं यज्ञोचितपृथ्वीं विशोध्य तद्गताऽशुद्धपुद्गलापनयनेन शुद्धां कारयित्वा उचितमृत्तिकाभिस्तद्योग्यशुद्धमृत्तिकाभिराचितं पूरितं पुनश्चत्वारः प्रवेशा प्रवेशमार्गा यसिंस्तच्चतुःप्रवेशम् ६ एवंविधं चतुरस्रं चतुष्कोणं चत्वरं संस्कृतभूपीठं व्यधापयन् कारयन्ति स्म । आचितमिति । 'पूणे त्वाचितं छन्नपूरिते' इत्यादि हैमः । चतुरस्रेत्यादि । चतस्रोऽस्रयोऽस्येति विग्रहेऽच्प्रत्ययस्तालव्यश-स्थाने ९ दन्त्य-सश्च 'सुप्रातसुश्व-' (५।४।१२०) इत्यादिना निपातनात् । 'चत्वरं स्यात् पथां श्लेषे स्थण्डिलाङ्गणयोरपी'त्यनेकार्थः । 'स्थण्डिलं संस्कृता भूमि'रिति तद्वृत्तिः । एवं व्याख्यासुधाख्यायाममरवृत्तावपि १२'द्वे यागार्थ संस्कृतभूमेः' इत्यादिपाठोऽस्ति । क्षीरस्वामीकृतामरवृ. त्तिहैमाभिधानचिन्तामणिवृत्त्योस्तु 'असंस्कृता भूमि रित्युक्तमस्तीति । व्यधापयनिति । 'विपूर्वाद्धाओ हेतुमण्णिजन्ताकर्तरि लङ् ॥२७॥ १५ प्रसाध्य सूत्रधुंवतो दिशः समा निखाय यूपं भुवि मध्यभागतः । समन्ततोऽस्याप्यमरावतीं पुरी सुचित्रयाश्चक्रुरखण्डतन्दुलैः ॥२८॥ सूत्रैः सूत्रतन्तुभिर्धवतो ध्रुवतारकात् समा अवका दिशः प्रसाध्य साधयित्वा मध्यभागतस्तस्य च मध्यभागे भुवि पृथिव्यां यूपं २१ यज्ञकीलकं निखाय निक्षिप्य अस्य यज्ञस्तम्भस्य समन्ततोऽपि चत. सृष्वपि दिक्षु अखण्डतण्डुलैरमरावतीं पुरी इन्द्रनगरी सुचित्रयाञ्चक्रुः २३ चित्रयन्ति स्म, ते विप्रा इति शेषः । युपमिति । 'यूपः स्याद्यज्ञ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy