________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
समानभावा यशसा च विद्यया
सु-वर्ण-संस्थान-वयः-सदुक्तिभिः । खतोऽतिरिक्ता दश सूरिसिन्धुरा
मिथः प्रणम्याऽऽसत तत्र मण्डपे ॥ २६ ॥ यशसा कीर्त्या च पुनर्विद्यया षडङ्गयादिकया तथा सुष्ठु शोभनो वर्णः शरीरच्छविः संस्थानं समचतुरस्राख्यं वयो यौवनं सदुक्तयः ६ शोभनवाग्विलासास्ताभिः समानः परस्परं तुल्यो भाव आत्मा विभूतिर्वा येषां ते तथोक्ता एवंविधाः खतः खस्मादतिरिक्ता भिन्ना दशसूरिसिंधुरा द्वौ खलघुभ्रातरौ अष्टौ चान्ये एवं दशसंख्याकाः पण्डि-९ तमुख्या मिथः परस्परं प्रणम्य प्रणामं कृत्वा तत्र तस्मिन् याज्ञिकाऽहे मण्डपे आश्रयविशेषे आसत उपविशन्ति स्म । भावा इति । 'भावोऽभिप्रायवस्तुनोः । खभावजन्मसत्तात्मक्रियालीलाविभूतिषु' १२ इत्याद्यनेकार्थः । विभूतिरैश्चर्यम् । सुवर्णेत्यादि-वर्णश्च संस्थानं च वयश्च वर्णसंस्थानवयांसि, शोभनानि वर्णसंस्थानवयांसि च सदुक्तयश्वेति द्वन्द्वः । सूरिसिन्धुरा इति । 'मेधाविकोविदविशारदसूरि-१५ दोषज्ञ' इत्यादि हैमः । सिन्धुरशब्दः कुञ्जरपर्यायः । 'स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जरा' इत्यादिवचनात् प्रशस्यार्थवाचको बोध्यः । आसतेति । 'आस उपवेशने' अदादिकोऽस्मात्करि लङ्॥२६॥ १८
प्रशस्तकाले दिन-लग्न-भ-ग्रहै
(वं विशोध्योचितमृत्तिकाऽऽचितम् । चतुःप्रवेशं चतुरस्रचत्वरं
व्यधापयंस्ते चतुरैर्यथाविधि ॥ २७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org