________________
श्रीगौतमीयकाव्यं
अथेति प्रारम्भे एष गौतमो यद्यपि हुताशनं वहिं अजुहोत् हव्यद्रव्यैः प्रीणयति स्म । पुनर्यद्यपि शश्वन्निरन्तरं स्वधाभुजो देवान् ३ इयाज पूजयति स्म, तथाऽपि सर्वाऽमरतोषहेतुना सर्वेषाममराणां देवानां तोषस्य तुष्टेहेतोः आत्मनः स्वस्य त्रिदिवेच्छया खर्गगमनेच्छया यष्टुं यज्ञं कर्तुं ववाञ्छ वाञ्छति स्म । अजुहोदिति । 'हु दानादौ' ६ अस्मात्कर्तरि लङ् । इयाजेति । 'यज देवपूजादौ' अस्माकर्तरि लिट् । ववाञ्छति । 'वाञ्छि इच्छायां' कर्तरि लिट् ।
अत्र यद्यपि गौतमः खग्रामे खयं यष्टुं ववाञ्छेत्युक्तं, तथापि ९ शास्त्रान्तरे अपापापुर्यां सोमिलब्राह्मणेन यज्ञार्थ एकादशब्राह्मणोत्तमा आहूता इत्युक्तमस्ति ॥ २४ ॥
ततोऽसौ किं कृतवानित्याह१२ क्रियाविदोस्तत्सहजन्मनोईयो
__रमुष्य सादृश्यवतोः सतोरपि ।
ऋचां सदाननुभाषकान् द्विजान् १५ समाजुहावैष जनैः प्रणोदितैः ॥ २५॥
क्रियां याज्ञिकक्रियां वित्तो जानीत इति क्रियाविदौ तयोरत एवामुष्य अस्य गौतमस्य सादृश्यमस्ति, अनयोरिति सादृश्यवन्तौ तयो१८ ईयोस्तस्य गौतमस्य सहजन्मनोमा॑त्रोः सतोर्विद्यमानयोरपि एष
इन्द्रभूतिः प्रणोदितैः स्वयंप्रेरितैर्जनैः सदान् सतां विदुषां पूज्यान् ऋचां वेदशाखानामनुभाषकान् द्विजान् ब्राह्मणान् समाजुहाव आका२१ रयामास, यज्ञनिमित्तमिति शेषः । समाजुहावेति । समाङ्पूर्वात्
व्हेजः कर्तरि लिट् । 'अभ्यस्तस्य च' (६।१।३३) इति संप्रसारणं, २३ ततो द्वित्वम् ॥ २५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org