SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । कथने करणे क्रियायां च तुल्यतां सादृश्यं दधाति बिभर्ति, कथनानुरूपां क्रियायां दधातीत्यर्थः । अयं गौतमोऽपि तथाऽभूदिति भावः । धर्मेत्यादि । 'धर्मशास्त्रं स्यात् स्मृतिर्द्धर्मसंहिता' इति हैमः ॥२२॥३ आरभ्य सर्गात्स रवीन्दुवंशगाः पुराणनिर्बद्धकथाश्चिरन्तनीः। वदन् सुधास्यन्दसमानया गिरा बहुश्रुतत्वेन बभूव विश्रुतः ॥ २३ ॥ स गौतमः सुधाया अमृतस्य स्यन्दः प्रस्रवणं तेन समाना तुल्या तया गिरा वाण्या सर्गात्सृष्टेरारभ्य रवीन्दुवंशगाः सूर्यवंशादिगता-९ श्चिरन्तनीश्चिरकालोद्भवाः पुराणेषु पुराणशास्त्रेषु निबद्धा प्रथिता याः कथास्ता वदन् कथयन् बहुश्रुतत्वेन बहुश्रुततया विश्रुतो लोके प्रसिद्धो बभूव । सर्गादिति । आरभ्य योगे पञ्चमी 'कार्तिक्याः १२ प्रभृतीति भाष्यप्रयोगात् प्रभृत्यर्थयोंगे पञ्चमीखीकारात् । रवीत्यादि । रविश्व इन्दुश्च रवीन्दू सूर्याचन्द्रौ तयोवंशो गच्छन्ति प्रामुवन्तीति विग्रहः । चिरन्तनीरिति । 'सायंचिरं'-(४।३।२३) १५ इत्यादिना ट्युप्रत्ययस्तुट् च । 'टिड्डाणञ्-' (४।१।१५) इति ङीप, अत्राद्यपादे आदौ तगणेन अन्येषु चादौ जगणेन इन्द्रवंशावंशस्थयोलक्षणसंयोगात् । उपजातिछंदः ॥ २३ ॥ एतेन काव्यैकादशकेनास्य चतुर्दशविद्यापारीणत्वमावेद्याथ यज्ञकरणखरूपमाहअथैष यद्यप्यजुहोद्धुताशनं खधाभुजः शश्वदियाज यद्यपि । तथापि सर्वामरतोषहेतुना ववाञ्छ यष्टुं त्रिदिवेच्छयात्मनः॥२४॥२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy