________________
श्रीगौतमीयकाव्यं
मङ्गले संशयारम्भाऽधिकाराऽनन्तरेषु च । अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि' इत्यनेकार्थात् । श्रोत्रियेति । छन्दो अधीते इति ३ श्रोत्रियः, छन्दसः श्रोत्रादेशो घप्रत्ययश्च ॥ २० ॥
८८
प्रमाणदृष्टान्तवितर्क लक्षणैः स्वपक्षसिद्धिः प्रतिपक्षखण्डनम् । यया प्रतन्येत तया हि विद्ययाSसिधारयेवाऽस्य जयो व्यजृम्भत ॥ २१ ॥
प्रमाणानि प्रत्यक्षानुमानोपमानशब्दलक्षणानि, दृष्टान्ताः पर्वतो ९ वह्निमान् धूमात् महानसवदित्यादयः, वितर्कों व्याप्यारोपेण व्यापकारोपः, लक्षणानि ' द्रव्यत्वजातिमद्गुणवद्वा' द्रव्यमित्यादीनि, तैर्हेतुभूतैर्यया विद्यया खपक्षस्य खगृहीतपक्षस्य सिद्धिर्निष्पत्तिः प्रतन्येत १२ विस्ताय्यैत तथा प्रतिपक्षिगृहीतपक्षस्य खण्डनं प्रतन्येत, तार्किकै - रिति शेषः । हि निश्चितम् । असिधारया खड्गधारयेव तया विद्ययाऽस्य गौतमस्य जयो विद्वत्सभाजेतृत्वं व्यजृम्भत विकसति स्म, १५ प्रवर्त्तते स्मेति यावत् । प्रतन्येतेति । प्रपूर्वात्तनोतेः कर्मणि लिङ् ॥ २१ ॥ स धर्मशास्त्राध्ययनं प्रभावयंअकार गृह्याश्रमधर्मसेवनम् । प्रशंसनीयस्तु स एव यः सदा
दधाति वादे करणे च तुल्यताम् ॥ २२ ॥ स गौतमो धर्मशास्त्रस्य धर्मप्रतिपादकशास्त्रस्य स्मृतेरध्ययनं पठनं २१ प्रभावयन् प्रकाशयन् गृह्याश्रमस्य गृहस्थाश्रमस्य यो धर्मस्तस्य सेवनं प्रतिपालनं चकार कृतवान् । युक्तोऽयमर्थः - तु इति विशेषे, स एव २३ पुमान् प्रशंसनीयो लोके प्रशंसार्हः, यः सदा सर्वस्मिन्काले वादे
१८
Jain Education International For Private & Personal Use Only www.jainelibrary.org