________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
यज्ञक्रियाकर्तृणां ब्राह्मणानां मध्ये धौरेयपदं धुरीणतामुवाह धारयति स्म । पञ्चधेति । अत्र पञ्चधात्वं यज्ञानां पञ्चविधत्वादऽवसेयम् । यदुक्तममरेण–'पाठो १ होम २ श्चातिथीनां सपर्या ३ तर्पणं ४३ बलिः ५। एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामका' इति । एषामों हैमकोशाद् ज्ञेयः । अध्वरेति । यज्ञो यागः सवः सत्रमित्यादि । 'वितानं बर्हिरध्वर' इति हैमः। धौरेयेत्यादि । धुरं वहतीति ६ धौरेयस्तस्य पदं स्थानमिति विग्रहः ॥ १९॥
यदृच्छयाऽऽक्षिप्तविधेः प्रमाणता
प्रमाणमद्वैतमथास्ति तत्त्वतः । इति श्रुतं श्रोत्रियताप्रकाशकं
किमस्य मीमांसकतां न चावदत ? ॥२०॥ केषाञ्चिन्मते यदृच्छा नाम एकः पदार्थोऽस्ति, तन्मते सर्वमपि १२ कार्य यदृच्छयैव जायते । 'यदृच्छा खैरिता खेच्छे'ति कोशात् । यहच्छा नाम खेच्छा उच्यते । तथा मीमांसकमते कर्मणः प्रामाण्यमस्ति, तथा चायमर्थः-विधेः कर्मणः प्रमाणता प्रामाण्यं यदृच्छया १५ आक्षिप्त आक्षिप्यते स्म, गृह्यते स्मेति यावत् । अथ तत्त्वतः परमार्थतस्तु अद्वैतं अद्वैतवाद एव प्रमाणमस्ति इत्याकारकं श्रोत्रियताप्रकाशकं वेदाध्येतृत्वप्रकाशकं श्रुतं शास्त्रं अस्य गौतमस्य मीमांसकतां १८ मीमांसाशास्त्रज्ञातृत्वं किं न अवदत् न कथयति म, अवददेवेत्यर्थः । चः पादपूरणे । आक्षिप्तेति । आपूर्वाक्षिपः कर्मणि लुङ् । अद्वैतमिति । द्वयोर्भावो द्विता, द्वितैव द्वैतं । प्रज्ञादित्वादण् । न २१ विद्यते द्वैतं यत्र तदिति विग्रहः । 'एकमेव परं ब्रह्मे'त्यादिमतमित्यर्थः । अथेति । अथशब्दोऽत्र प्रतिज्ञायां, 'अथो अथ समुच्चये । २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org